________________
टतीयः प्रकाशः ।
५७७.
यथा कथञ्चिद्दा करणम्, प्रबलप्रमादादिदोषात् करणानन्तरमेव पारणं च । यदाहुः
'काऊण तखणं चित्र पारेइ करेइ वा जहिच्छाए।
अणवट्ठियसामाइयं अणायराभो न तं सुद्धं ॥ १ ॥.. इति चतुर्थः ॥ ४ ॥ स्मृतौ स्मरण सामायिकस्याऽनुपस्थापनं स्मृत्यनुपस्थापनं सामायिकं मया कर्तव्यं न कर्तव्यमिति वा, सामायिकं मया कृतं न कृतमिति वा, प्रबलप्रमादाद्यदा न स्मरति तदा अतिचारः, स्मतिमूलत्वान्मोक्षसाधनाऽनुष्ठानस्य । यदाहुः
न सरइ पमायजुत्तो जो सामाइयं कया य कायव्वं ।
कयमकयं वा तस्म हु कयं पि विहलं तयं नेयं ॥ १ ॥ ननु कायदुष्पणिधानादौ सामायिकस्य निरर्थकत्वादिप्रतिपादने - 'न वस्तुतोऽभाव एवोक्तः, अतिचारश्च मालिन्यरूप एव भवतीति कथं समायिकाभावे स भवेत् ?, अतो भङ्गा एवैते नातिचारा इति चेत् । उच्यते । अनाभोगतोऽतिचारत्वम् । ननु हिविधं त्रिविधेन सावद्यप्रत्याख्यानं सामायिकं, तत्र च कायदुष्पणिधानादौ प्रत्याख्यानभङ्गात् सामायिकाभाव एव, तद्भङ्गजनितं च प्रायश्चित्तं
(१) कृत्वा तरक्षणमेव पारयति करोति वा यथेच्छम् ।
अनवस्थितसामायिकमनादराद् न तत् शुद्धम् ॥ १ ॥ (२) न स्मरति प्रमादयुक्तो यः सामायिकं कदा च कर्तव्यम् ।
लतमकतं वा तस्य खलु कृतमपि विफलं तज्ज्ञेयम् ॥ १ ॥