________________
५८०
योगशास्त्रे
बुद्धया प्रेष्येण यदाऽऽनाययति सचेतनादि द्रव्यं तदाऽतिचार इति दितीयः २। तथा पुहला: परमाणवस्तत्संघातसमुद्भवा बादरपरिणाम प्राप्ता लोटेष्टका: काठशलाकादयोऽपि पुहलास्तेषां क्षेपणं प्रेरणम् । विशिष्टदेशावग्रहे हि सति कार्यार्थी परतो गमननिषेधाद्यदा लोष्टादीन् परेषां बोधनाय क्षिपति, तदा लोष्टादिपातसमनन्तरमेव ते तत्समीपमनुधावन्ति ; ततश्च तान् व्यापारयत: वयमनुपमर्दकस्यातिचारो भवतीति तृतीयः ३। शब्दरूपानुपातौ चेति शब्दानुपातो रूपानुपातश्च । तत्र स्वग्रहवृत्तिप्राकारादिव्यवच्छिन्नभूदेशाभिग्रहः प्रयोजने उत्पन्ने स्वयमगमनाद वृत्तिप्राकारप्रत्यासबवर्ती भूत्वा अभ्युत्कासितादिशब्दं करोति, आह्वानीयानां श्रोत्रेऽनुपातयति, ते च तच्छब्दश्रवणात्तत्समीपमागच्छन्ति इति शब्दानुपातोऽतिचारः। तथा रूपं स्वशरीरसम्बन्धि उत्पन्न प्रयोजन: शब्दमनुच्चारयन्, आह्वानीयानां दृष्टावनुपातयति, तद्दर्शनाच्च ते तत्समीपमागच्छन्तीति रूपानुपातः। . इयमत्र भावना - विवक्षितक्षेत्रावहिःस्थितं कञ्चन नरं व्रतभङ्गभयादाह्वातुमशक्नुवन् यदा स्वकीयशब्दश्रावणरूपदर्शनव्याजेन तमा- . कारयति, तदा व्रतसापेक्षत्वाच्छब्दानुपातरूपानुपातावतिचाराविति चतुर्यपञ्चमौ ४ । ५। इह चाद्यातिचारहयमव्यत्पन्नबुद्धितया, सहसाकारादिना वा ; अन्त्यत्रयं तु मायावितया अतिचारतां याति। अत्र दिग्व्रतसंक्षेपकरणवद् व्रतान्तराणामपि संक्षेपकरणं देशावकाशिकव्रतमिति वृद्धाः। अतिचाराश्च दिग्व्रतकरणस्यैव श्रूयन्ते न व्रतान्तरसंक्षेपकरणस्य, तत्कथं व्रतान्तर