________________
५७४
योगशास्त्रे
भोगादिना क्रियमाणा अतिचाराः, उपेत्य क्रियमाणास्तु भङ्गाएवेति ॥ ११४ ॥
. अथानर्थदण्डविरतिव्रतस्याऽतिचारानाहसंयुक्ताधिकरणत्वमुपभोगातिरिक्तता। मौखर्यमथ कौत्कुच्यं कन्दर्पोऽनर्थदण्डगाः ॥११५॥ अनर्थदण्डगा इत्यनर्थदण्ड विरतिव्रतगामिन एते पञ्चातिचाराः । तद्यथा-अधिक्रियते दुर्गतावात्माऽनेनेत्यधिकरणमुदूखलादिसंयुक्तम्, उदूखलेन मुशलं, हलेन फाल:, शकटेन युगं, धनुषा शराः, एवमेकमधिकरणमधिकरणान्तरेण संयुक्तं संयुक्ताऽधिकरणं तस्य भाषस्तत्त्वम् । इह च श्रावकेण संयुक्तमधिकरणं न धारणीयम् । तथा सति हि यः कश्चित् संयुक्तमधिकरणमाददीत, वियुक्ताधिकरणतायां तु सुखेन परः प्रतिषेधयितुं शक्यते। एतच्च हिंस्रप्रदानरूपस्यानथदण्ड स्यातिचारः १ । तथा उपभोगस्योपलक्षणत्वाद्भोगस्य चोक्तनिर्वचनस्य यदतिरिक्तत्वमतिरेक: सा उपभोगातिरिक्तता। अयं प्रमादाचरितस्याऽतिचारः । इह च नानपानभोजनचन्दनकुश्मकस्तूरिकावस्त्राभरणादीनामतिरिक्तानामारम्भोऽनर्थदण्डः । अत्राऽपि वृद्धसम्प्रदायः-अतिरितानि बहूनि तेलामलकानि यदि ग्रहाति, तदा तल्लोल्येन बहवः स्नानाथं तडागादौ व्रजन्ति, ततश्च पूतरकाप्कायादिवधोऽधिकः स्यात् ; न चैवं कल्पते, ततः को विधिः ? तत्र सानेच्छुना तावगृह एव सातव्यम्, तदभावे तु तैलामलकैर्गृह एव शिरो घर्षयित्वा तानि सर्वाणि शाटयित्वा