________________
. टतीयः प्रकाशः।
५७५ तडागादीनां तटे निविष्टोऽञ्जलिभिः नाति । तथा येषु पुष्यादिषु संसक्तिः सम्भवति तानि परिहरति, एवं सर्वत्र वाच्यमिति हितीयोऽतिचारः २। तथा मुखमस्याऽस्तीति मुखरोऽनालोचितभाषी वाचाटः तस्य भावो मौखयं धाष्ट्रप्रायमसभ्यासम्बद्धबहुप्रलापित्वम्, अयं च पापोपदेशस्यातिचारः, मौखये सति पापोपदेशसम्भवादिति तृतीयः ३ । तथा कुदिति कुत्सायां निपातो, निपातानामानन्त्यात् । कुत् कुत्सितं कुचति भूनयनौष्ठनासाकरचरणमुखविकारैः सङ्घचतौति कुत्कुचस्तस्य भावः कौत्कुच्यम्, अनेक प्रकारा भण्डादिविडम्बनक्रिया इत्यर्थः। अथवा कौकुच्चमिति पाठः, तत्र कुमित: कुचः कुकुचः सङ्कोचादिक्रियाभाक् तद्भाव: कोकुच्यम्, अत्र च येन परो हसति, आत्मनश्च लाघवं भवति, न तादृशं वक्तुं चेष्टितुं वा कल्पते. प्रमादात्तथाचरणे चातिचार इति चतुर्थः ४ । तथा कन्दर्प: कामस्तहेतुस्तप्रधानो वा वाक्प्रयोगोऽपि कन्दर्पः । इह च सामाचारी-श्रावकेण न तादृशं वक्तव्यं येन स्वस्य परस्य वा मोहोट्रेको भवतीति पञ्चमः ५। एतौ हावपि प्रमादाचरितस्यातिचारी, इत्यवसिता गुणव्रतातिचाराः ॥ ११५॥
अथ शिक्षाव्रतातिचारावसरः। तत्रापि सामायिकस्य
तावदतिचारानाह
कायवाङ्मनसां दुष्टप्रणिधानमनादरः । स्मृत्यनुपस्थापनं च स्मृताः सामायिकवते ॥ ११६ ॥