________________
टतीयः प्रकाशः। अथ दवदानसर:शोषावेकेन श्लोकेनाहव्यसनात् पुण्यबुद्ध्या वा दवदानं भवेद् द्विधा ।
सरःशोषः सरःसिन्धुहदादेरम्बुसंप्लवः ॥ ११४ ॥ दवस्य दवाग्ने: तृणादिदहननिमित्तं दानं वितरणं दवदानं, तच्च विधा संभवति-व्यसनात् फलनिरपेक्षतात्पर्य्यात् यथा वनेचरा एव. मेवाऽग्निं ज्वालयन्ति ; पुण्यबुद्धया वा यथा मे दवा देया मरणकाले इयन्तो मम श्रेयोऽथें धर्मदीपोत्सवाः करणीया इति, अथवा ढणदाहे सति नवढणाङ्गुरो दाद् गावश्चरन्तीति क्षेत्रे वा सस्यसम्पत्तिवृदयेऽग्निज्वालनम्। अत्र जीवकोटीनां वध: स्यात् । सरसः शोष: सर:शोषः सरोग्रहणमुपलक्षणं जलाशयान्तराणाम् । तदेवाह-सरःसिन्धुहदादिभ्यो योऽम्बुनो जलस्य संप्लवः सारणीकर्षणं धान्यवपनार्थ, आदिशब्दात् तडागादिपरिग्रहः । तताऽखातं सरः, खातं तडागम् । सर:शोषे च जलस्य तहतानां त्रसामा तत्प्लावितानां च षसां जीवनिकायानां वध इति सरःशोषदोषः । इत्युक्तानि पञ्चदशकर्मादानानि, दिनातं चेदम्, एवंजातीयानां बहूनां सावद्यकर्मणां न पुन: परिगणनमिति । इह चैवं विंशतिसंख्याऽतिचाराभिधानमन्यत्रापि पञ्चातिचारसंख्यया तज्जातीयानां व्रतपरिणामकालुष्यनिबन्धनविधीनामपरषां संग्रह इति ज्ञापनार्थम् । तेन स्मृत्यन्तर्धानादयो यथासम्भवं सर्वव्रतेष्वतिचारा दृश्याः। नन्वङ्गारकर्मादयः कथं खरकर्मण्यतिचाराः ?, खरकर्मरूपा एव ह्यते। सत्यम् । खरकर्मरूपा एवैते, किन्त्वना