________________
हतीयः प्रकाशः ।
५४० किं बहुना ? मूलगुणस्याहिंसालक्षणस्यातिचारो यथा न भवति तथा यतनया वर्तनीयम् । ननु हिंसैव श्रावकेण प्रत्याख्याता ततो बन्धादिकरणेऽपि न दोषो हिंसाविरतेरखण्डितत्वात् ; अथ बन्धादयोऽपि प्रत्याख्यातास्तदा तत्करण व्रतभङ्ग एव, विरतिखण्डनात् । किञ्च । बन्धादीनां प्रत्याख्येयत्वे व्रतयत्ता 'विशौर्येत ; प्रतिव्रतमतिचारवतानामाधिक्यादिति। एवं च न बन्धादीनामतिचारतति । उच्यते -सत्यं हिंसैव प्रत्याख्याता न बन्धादयः, केवलं तत्प्रत्याख्याने अर्थतस्तेऽपि प्रत्याख्याता द्रष्टव्याः, हिंसी. ' पायत्वात्तेषाम् । न च बन्धादिकरणेऽपि व्रतभङ्गः किन्वतिचार एव। कथम् । इह विविधं व्रतम्- अन्तवृत्त्या बहिवृत्त्या च ; तत्र मारयामीति विकल्पाभावेन यदा कोपाद्यावेशात्परप्राणप्रहाणमविगणयन् बन्धादौ प्रवर्त्तते न च हिंसा भवति, तदा निर्दयताविरत्यनपेक्षप्रवृत्तत्वेनान्तवृत्त्या व्रतस्य भङ्गः, हिंसाया अभावाच्च बहिवृत्त्या पालनमिति । देशस्य भञ्जनाद्देशस्यैव पालनादतिचारव्यपदेशः प्रवर्तते। तदुक्तम्न मारयामीति कतव्रतस्य विनैव मृत्यं क इहातिचारः ? । निगद्यते यः कुपितो वधादीन् करोत्यसो स्थानियमाऽनपेक्ष: ॥१॥ मृत्योरभावानियमोऽस्ति तस्य कोपाहयाहीनतया तु भग्नः । देशस्य भङ्गादनुपालनाच्च पूज्या अतीचारमुदाहरन्ति ॥ २ ॥
(१) क विशीर्यते।