________________
तृतीयः प्रकाशः ।
तत्र प्रथमव्रते तानाहक्रोधाबन्धविच्छेदोऽधिकभाराधिरोपणम् ।
प्रहारोऽन्नादिरोधश्चाहिंसायां परिकीर्तिताः ॥६०॥ अहिंसायां प्रथमाणुव्रते अमी पञ्चातिचारा:-बन्धो रज्ज्वादिना गोमहिष्यादीनां नियन्त्रणम् ; स्वपुत्रादीनामपि विनयग्राहणार्थं क्रियते, अत: क्रोधादित्युक्तम् ; क्रोधात् प्रबलकषायोदयाद्यो बन्धः स प्रथमोऽतिचारः १। छविः शरीरं त्वग्वा, तस्याः छेदो धीकरणम् ; स च पादवल्मीकोपहतपादस्य पुत्रादेरपि क्रियते इति क्रोधादित्यनुवर्तते । क्रोधाद्यः छविच्छेदः स द्वितीयोऽतिचारः २ । अधिकस्य वोढ़मशक्यस्य भारस्यारोपणं गो-करभ-रासभमनुष्यादेः स्कन्धे पृष्ठे शिरसि वा वाहनायाधिरोपणम् ; इहापि क्रोधादित्यनुवर्तते, 'तेन क्रोधात्तदुपलक्षिताल्लोभाहा यदधिकभारारोपणं स टतीयोऽतिचार: ३ । प्रहारो लगुडादिना ताडनं क्रोधादेवेति चतुर्थोऽतिचारः ४ । अनादिरोधो भोजनपानादेनिषेधः क्रोधादेवेति पञ्चमोऽतिचारः ५। अत्र चायमावश्यकचर्पोा तो विधिः । बन्धो हिपदानां चतुष्पदानां वा स्यात्, सोऽपि सार्थकोऽनर्थको वा, तत्रानर्थकस्तावद् विधातुं न युज्यते, सार्थकः पुनरसौ विविधः, सापेक्षो निरपेक्षश्च, तत्र सापक्षो यो दामग्रन्थिना शिथिलेन, यश्च प्रदीपनादिषु मोचयितुं छत्तुं वा शक्यते । निरपेक्षो यत् निश्चलमत्यर्थञ्च बध्यते । एवं तावत्
(१)
क तत् ।