SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ५४६ योगशास्त्र यदाह 'सब्वेवि अ अारा संजलणाणं तु उदयतो हुति। मूलच्छिज्जं पुण होइ बारसगह कसायाणं ॥ १ ॥ संज्वलनोदयश्च सर्वविरतानामेव, देशविरतानां तु प्रत्याख्यानावरणोदय इति न देशविरतावतिचारसम्भवः । युज्यते चैतत्, अल्पीयस्त्वात्तस्याः, कुन्थुशरीरे व्रणाद्यभाववत् । तथाहि प्रथमाणवते स्थूलं सङ्कल्पं निरपराधं विविधं त्रिविधेनेत्यादिविकल्पैविशेषितत्वेनातिसूक्ष्मतां गते देशाभावात्कथं देशविराधनारूपा अतिचारा भवन्तु, अत: सर्वनाश एव तस्योपपद्यते । महाव्रतेषु तु ते संभवन्ति, महत्त्वादेव ; हस्तिशरीरे व्रणपट्टबन्धादि. वदिति। उच्चते। देशविरतावतिचारा न संभवन्तीत्यसङ्गतम् । उपासकदशादिषु प्रतिव्रतम तिचारपञ्चकाभिधानात् । अथ भङ्गा एव ते, न त्वतिचाराः। नैवम् । भङ्गाद्भदेनातिचारस्यागमे संमतत्वात् । यच्चोक्तम्। सर्वेऽप्यतिचारा: संज्वलनोदय एव । तत्सत्यम् । केवलं सर्वविरतिचारित्रमेवाश्रित्य तदुच्यते, न तु सम्यक्त्वदेशविरती। यतः-सञ्चेवि अ अइयारा इत्यादि गाथाया एवं व्याख्या-संज्वलनानामेवोदये सर्वविरतावतिचारा भवन्ति, शेषोदये तु मूलच्छेद्यमेव तस्याम् । एवं च न देशविरतावतिचाराभावः ॥ ८॥ (१) सर्वेऽपि च अतिचाराः संज्वलनानां तु उदयतो भवन्ति । मलच्छेद्यं पुनर्भवति हादशानां कषायाणाम् ॥ १ ॥
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy