________________
तृतीयः प्रकाशः ।
५४५
प्रसौ जगत्स्वामिशिष्यानुरूपं तप्यते तपः । मुधाऽनुतप्यते मुग्धे ! किं त्वया स्त्रीस्वभावत: ? ॥ २४ ॥ भट्रैवं बोधिता राज्ञा वन्दित्वा तौ महामुनी । विमनस्का निजं धाम जगाम श्रेणिकस्तथा ॥ २५ ॥ मृत्वा ततस्तो सर्वार्थसिद्धस्वर्गे बभूवतुः । सुरोत्तमौ त्रयस्त्रिंशत्सागरप्रमितायुषौ ॥ २६ ॥ .
सत्पात्रदानफलसम्पदमहितीयां स प्राप सङ्गमक आयतिवईमानाम् । कार्यो नरैरवितथातिथिसंविभागे ... भाग्यार्थिभिननु ततः सततं प्रयत्नः ॥ १२७ ॥
॥ इति सङ्गमककथानकम् ॥ ८८ ॥
उक्तानि हादशव्रतानि, अथ तच्छेषमतिचाररक्षणलक्षणं
प्रस्तोतुमाह
व्रतानि सातिचाराणि सुकृताय भवन्ति न । अतिचारास्ततो हेयाः पञ्च पञ्च व्रते व्रते ॥ ८६ ॥
अतिचारो मालिन्यं तद्युतानि व्रतानि न सुकताय भवन्ति, तदर्थमेवैकैकस्मिन् व्रते पञ्च पञ्चातिचारा: परिहरणीयाः । ननु सर्वविरतावेवातिचारा भवन्ति, संज्वलनोदय एव तेषामभिधानात् ।