________________
५४४
योगशास्त्रे
उभावथ महासत्त्वी 'सत्वरौ भवमुज्झितुम् । वैभारपर्वते गत्वाऽनशनं तौ प्रचक्रतुः ॥ १५ ॥ श्रेणिकेन समं भद्रा वेभाराद्रिं ययौ ततः । तथास्थितावपश्यच तावश्मघटिताविव ॥ १६ ॥ तत्कष्टमय पश्यन्ती स्मरन्तौ तत्सुखानि च । साऽरोदीद्रोदयन्तीव वैभाराद्रिं प्रतिवनैः ॥ १०॥ आयातोऽपि ग्राहं वत्स ! मया तु खल्पभाग्यया । न जातोऽसि प्रमादेनाप्रसादं मा कथा मयि ॥ १८ ॥ यद्यपि त्यक्तवानस्त्वं तथापि निजदर्शनात् । आनन्दयिष्यसि दृशौ पुरेत्यासोन्मनोरथः ॥ १८ ॥ प्रारम्भेणामुना पुत्र ! शरीरत्यागहेतुना। मनोरथं तमपि मे भतुमस्युद्यतोऽधुना ॥ २० ॥ प्रारब्धं यत्तपस्तत्र न ते विघ्नीभवाम्यहम् । किन्वेतत्कर्कशतमं शिलातलमितो भव ॥ २१ ॥ प्रथोचे श्रेणिको हर्षस्थाने किमम्ब ! रोदिषि ? । ईदृग् यस्याः सुतः स्त्रीषु त्वमेका पुत्रवत्यसि ॥ २२ ॥ तत्त्वज्ञोऽयं महासत्त्वस्त्यत्वा टणमिव श्रियम् । प्रपदे स्वामिनः पादान् साक्षादिव परं पदम् ॥ २३ ॥
(३) ख ड त्वं सका।
(१) ख च सत्वरं। (२) क ग च किं नाम ।