________________
५४३
तृतीयः प्रकाशः । तदाऽऽयान्ती पुरे तस्मिन्विक्रेतुं दधिसर्पिषो । शालिभद्रस्य प्रारजन्ममाता धन्याऽभवत्पुरः ॥ ५ ॥ शालिभद्रं तु सा प्रेक्ष्य सञ्जात प्रस्रवस्तनी। वन्दित्वा चरणौ भक्त्या हास्यामपि ददौ दधि ॥ ६ ॥ श्रीवीरस्यान्तिके गत्वा तदालोच्य कृताञ्जलिः । शालिभद्रोऽवदत्स्वामिन्माटत: पारणं कथम् ? ॥ ७ ॥ सर्वज्ञोऽप्याचचक्षेऽथ शालिभद्र ! महामुने !। प्राग्जन्ममातरं धन्यामन्यदप्यन्यजन्मजम् ॥ ८ ॥ कृत्वा पारणकं दनाऽऽपृच्च्य च स्वामिनं ततः । वैभाराद्रिं ययौ शालिभद्रो धन्यसमन्वितः ॥८॥ शिलातले शालिभद्रः सधन्यः प्रतिलेखिते । पादपोपगमं नाम तत्रानशनमाश्रयत् ॥ १० ॥ तदा च भद्रा तन्माता श्रेणिकश्च महीपतिः । आजग्मतुर्भक्तियुक्तौ श्रीवीरचरणान्तिकम् ॥ ११ ॥ ततो भद्राऽवदधन्यशालिभद्रो व तो मुनी ? । भिक्षार्थ नागतो कस्मादस्मद्देश्म जगत्पते ! ॥ १२ ॥ सर्वज्ञोऽपि बभाषे तो त्वद्देश्मनि मुनी गतौ । ज्ञातौ न तु भवत्येहागमनव्यग्रचित्तया ॥ १३ ॥ प्राग्जन्ममाता त्वत्सू नोर्धन्या यान्ती पुरं प्रति । ददौ दधि तयोस्तेन पारणं चक्रतुश्च तौ ॥ १४ ॥
(१)
ड -प्रस्नव-।