________________
५४२
योगशास्त्रे ततः सपरिवारोऽपि स्वामी मिद्धार्थनन्दनः । विहरबन्यतोऽगच्छत् सयूथ इव हस्तिराट् ॥ ८४ ॥ धन्यथ शालिभद्रश्च तावभूतां बहुश्रुती। महत्तपश्च तेपाते खङ्गधारासहोदरम् ॥ ८५ ॥ पक्षाद् मासाद् हिमास्यास्त्रिमास्या मासचतुष्टयात् । शरीरनिरपेक्षौ तौ चक्रतुः पारणं मुनी ॥ ८६ ॥ तपसा समजायेतां निमांसरुधिराङ्गको। चर्मभस्त्रोपमौ शालिभद्रधन्यौ महामुनी ॥ १७ ॥ अन्येद्युः श्रीमहावीरखामिना सह तो मुनी। भाजग्मतू राजगृहं पुरं जन्मभुवं निजाम् ॥ ८ ॥ तत: समवसरण स्थितं नन्तुं जगत्पतिम् । . श्रद्धाऽतिशययोगेनाच्छिन्नमीयुर्जनाः पुरात् ॥ ८८ ॥ . मासपारणके शालिभद्रधन्यावुभावपि । काले विहर्तुं भिक्षार्थ भगवन्तं प्रणमतुः ॥ १० ॥ माटपार्खात्पारणं तेऽद्येत्युक्तः स्वामिना ततः । इच्छामीति भणन् शालिभद्रो धन्ययुतो ययौ ॥ १ ॥ गत्वा भद्राग्रहहारि तावुभावपि तस्थ तुः । तपःक्षामतया तौ च न केनाप्युपलक्षितौ ॥ २ ॥ श्रीवीरं शालिभद्रं च धन्यमप्यद्य वन्दितुम् । यामीति व्याकुला भद्राऽप्यज्ञासौदुत्सुका न तौ ॥ ३ ॥ क्षणमेकमवस्थाय तत्र तौ जग्मतुस्ततः । महर्षी नगरहारप्रतोल्या च निरीयतुः ॥ ४ ॥