________________
तृतीयः प्रकाशः |
य एवं कुरुते फेरुरिव भोरुस्तपस्वासौ । होनसत्त्वस्तव भ्रातेत्यूचे धन्यः सनर्मकम् ॥ ८४ ॥ सुकरं चेद्दतं नाथ ! क्रियते किं न हि त्वया ? | एवं सहासमन्याभिर्भार्याभिर्जगदेऽथ सः ॥ ८५ ॥ धन्योऽप्यूचे व्रते विघ्नो भवत्यस्ताश्च पुण्यतः । अनुमन्त्रप्रोऽद्य मेऽभूवन् प्रत्रजिष्यामि तद् द्रुतम् ॥ ८६ ॥ ता अप्यूचुः प्रसीदेदमस्माभिर्नर्मणोदितम् ।
मा म त्याक्षीः श्रियोऽस्मांश्च मनखिन् ! नित्यलालिताः ॥ ८७॥ अनित्यं स्त्रीधनाद्येतत्प्रोज्झा नित्यपदेच्छया ।
अवश्यं प्रव्रजिष्यामीत्यालपन् धन्य उत्थितः ॥ ८८ ॥ त्वामनु प्रव्रजिष्याम एवमुक्तवतीश्च ताः । अन्वमन्यत धन्योऽपि धन्यंमन्यो महामनाः ॥ ८८ ॥ इतश्च वैभारगिरौ श्रीवीरः समवासरत् । विदाञ्चकार तं सद्यो धन्यो धर्मसुहृहिरा ॥ ८० ॥ दत्तदानः सदारोऽसावारुह्य शिबिकां ततः । भवभीतो महावीरचरणौ शरणं ययौ ॥ ८१ ॥ सदारः सोऽग्रहीद् दीक्षां ततो भगवदन्तिके । तच्छ्रुत्वा शालिभद्रोऽपि जितंमन्यः प्रतत्वरे ॥ ८२ ॥ सोऽन्वीयमानस्तदनु श्रेणिकेन महीभुजा । उपेत्य श्रीमहावीरपादमूलेऽग्रहीद् व्रतम् ॥ ८३ ॥
( १ ) ख च प्रोज्झनि
५४१