SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ५४. योगशास्त्र अकार्षीः साध्विदं वत्म ! पितुस्तस्यासि नन्दनः । प्रशशंसेति भद्राऽपि शालिभद्रं प्रमोदतः ॥ ७४ ॥ सोऽप्यवोचदिदं मातरेवं चेत्तत् प्रसौद मे। ग्रहीष्यामि व्रतमहं ननु तस्य पितुः सुतः ॥ ७५ ॥ साऽप्यवादीदिदं वत्स ! युक्तस्तेऽसौ व्रतोद्यमः । किन्वत्र लोहचणकाचर्वणीया निरन्तरम् ॥ ७६ ॥ सुकुमारः प्रकृत्याऽपि दिव्यभोगैश्च लालितः । स्यन्दनं तर्णक इव कथं त्वं वक्ष्यसि व्रतम् ? ॥ ७७ ॥ शालिभद्रोऽप्युवाचैवं पुमांसो भोगलालिताः । असहा व्रतकष्टानां कातरा एव नेतरे । ७८॥ त्यज भोगान् क्रमान्मळ माल्यगन्धान सहस्व च। इत्यभ्यासाइतं वत्स ! टीया इत्य वाच सा ॥ ७८ ॥ शालिभद्रस्ततो भद्रावचनं प्रतिपद्य तत् । भार्यामेकां तूलिकां च मुञ्चति स्म दिने दिने ॥ ८० ॥ इतश्च तस्मिन् नगरे धन्यो नाम महाधनः । बभूव शालिभद्रस्य कनिष्ठभगिनीपतिः ॥ ८१ ॥ शालिभद्रखसा 'साश्रु सूपयन्ती तु तं तदा । किं रोदिषीति तेनोक्ता जगादेति सगगदम् ? ॥ ८२ ॥ व्रतं ग्रहीतुं मे भ्राता त्यजत्येकां दिने दिने । भायां च तूलिकां चाहं हेतुना तेन रोदिमि ॥ ८३ ॥ . १) स्व च साश्रुः। ड धन्यं ।
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy