________________
५३८
टतौयः प्रकाशः । सर्वथा धन्य एवैष धन्योऽहमपि संप्रति । राज्ये यस्येदृशाः सन्ति विममर्शति भूपतिः ॥ ६४ ॥ बुभुजे सपरीवारो भूभुजामग्रणीस्ततः । चित्रालङ्कारवस्त्राद्यैरर्चितश्च गृहं ययौ ॥ ६५ ॥ शालिभद्रोऽपि संसारविमोक्षं यावदिच्छति । अभ्येत्य धर्मसुहृदा विज्ञप्तस्तावदीदृशम् ॥ ६६ ॥ आगाच्चतु नधरः सुरासुरनमस्कृतः । मूर्ती धर्म इवोद्याने धर्मघोषाभिधो मुनिः ॥ ६ ॥ शालिभद्रस्ततो हर्षादधिरुह्य रथं ययौ । आचार्यपादान् वन्दित्वा साधूंश्योपाविशत्पुरः ॥ ६८ ॥ स मूरिर्देशनां कुर्वन् नत्वा तेनेत्यपृच्यत । भगवन् ! कर्मणा केन प्रभुरन्यो न जायते ? ॥ ६८ ॥ भगवानप्युवाचेदं दीक्षां गृह्णन्ति ये 'जनाः । अशेषस्यापि जगतः स्वामिभावं भजन्ति ते ॥ ७० ॥ यद्येवं नाथ ! तहत्वा निजामापच्च्य मातरम् । ग्रहीष्यामि व्रतमिति शालिभद्रो व्यजिज्ञपत् ॥ ७१ ॥ न प्रमादो विधातव्य इत्युक्तः सूरिणा ततः । शालिभद्रो ग्रहं गत्वा भद्रां नत्वेत्यभाषत ॥ ७२ ॥ धर्मः श्रीधर्मघोषस्य सूररद्य मुखाम्बुजात् । विश्वदुःखविमोक्षस्योपायभूतो मया श्रुतः ॥ ७३ ॥
(१)
ख च नराः।