________________
योगशास्त्रे
» एवं संवेगयुक्तोऽपि स मातुरुपरोधतः । सभार्योऽभ्येत्य राजानमनमहिनयान्वितः ॥ ५४ ॥ सस्वजे श्रेणिकेनाथ स्वाथै सुत इवामितः । स्नेहाच्छिरसि चाघ्रातः क्षणाचाणि सोऽमुचत् ॥ ५५ ॥ ततो भद्रा जगादैवं देवायं मुच्यतां यतः । मानुष्यमाल्यगन्धेन मनुष्योऽप्येष बाध्यते ॥ ५६ ॥ देवभूयं गतः श्रेष्ठी सभार्यस्यास्य यच्छति । दिव्यनेपथ्यवस्वाङ्गरागादीन् प्रतिवासरम् ॥ ५७ ॥ ततो राज्ञा विसृष्टोऽसौ ययौ सप्तमभूमिकाम् । इहैव भोक्तव्यमिति विज्ञप्तो भद्रया नृपः ॥ ५८ ॥ भद्रादाक्षिण्यतो राजा प्रत्यपद्यत तत्तथा । सद्यः साऽसाधयत्सर्वं श्रीमतां किं न सिध्यति ? ॥ ५८ ॥ सत्रौ नानीयतैलाम्बचूर्णेस्तूर्णं ततो नृपः । अङ्गुलीयं तदङ्गल्याः क्रीडावाप्यां पपात 'च ॥ ६० ॥ यावदन्वेषयामास भूपतिस्तदितस्ततः । तावद्भद्राऽऽदिशहासौं वाप्यम्भोऽन्यत्र नाय्यताम् ॥ ६१ ॥ तथाकते तया चित्रदिव्याभरणमध्यगम् । अङ्गाराभं स्वाङ्गलीयं दृष्ट्वा राजा विसिभिये ॥ १२ ॥ किमेतदिति राज्ञोक्ता दास्यवोचदिहान्वहम् ! । निर्माल्यं शालिभद्रस्य सभार्यस्य निधीयते ॥ ६३ ॥
(१)
क तत् ।