________________
टतीयः प्रकाशः ।
५३७
विचित्रवस्त्रमाणिक्यचित्रकत्वमयीं ततः । आराजहम्यं स्वग्रहाददृशोभा व्यधत्त सा ॥ ४४ ॥ तयाऽऽहतस्ततो राजा कृतां सद्य: सुरैरिव । विभावयन् हशोभा शालिभद्रग्रहं ययौ ॥ ४५ ॥ स्वर्णस्तम्भोपरि प्रेसदिन्द्र नीलाश्मतोरणम् । . मौक्तिकखस्तिकश्रेणिदन्तुरहारभूतलम् ॥ ४६ ॥ दिव्यवस्त्रवतोल्लोचं सुगन्धिद्रव्यधूपितम् । भुवि दिव्यविमानानां प्रतिमानमिव स्थितम् ॥ ४७ ॥ तद्विवेश विशामोशो विस्मयस्मेरलोचनः । . भूमिकायां चतुर्थ्यां तु सिंहासन उपाविशत् ॥ ८ ॥ सप्तम्यां भुवि भट्रेत्य शालिभद्रं ततोऽवदत् । इहायात: श्रेणिकोऽस्ति तं द्रष्टं क्षणमेहि तत् । ४८ ॥ अम्ब ! त्वमेव यद्देत्मि तमर्थं कारय स्वयम् । किं मया तत्र कर्त्तव्यं स भद्रामित्यभाषत ? ॥ ५० ॥ ततो भद्राऽप्यवाचैनं क्रेतव्यं वस्तु न ह्यदः । किन्त्वसौ सर्वलोकानां युष्माकमपि च प्रभुः ॥ ५१ ॥ तच्छ्रुत्वा शालिभद्रोऽपि सविषादमचिन्तयत् । धिक् सांसारिकमखये यन्ममाप्यपरः प्रभुः ॥ ५२ ॥ भोगिभोगैरिवभिर्मे भोगैरलमतः परम् ।। दीक्षां मक्षु ग्रहीष्यामि श्रौवीरचरणान्तिके ॥ ५३ ॥
(१) ख च -प्युवाचैवं ।