________________
५३६
योगशास्त्रे वणिग्भिः कैश्चिदन्येार्गृहीत्वा रत्नकम्बलान् । शिश्रिये श्रेणिकस्तांश्च महात्वेन नाग्रहीत् ॥ ३३ ॥ ततस्ते वणिजो जग्मुः शालिभद्रनिकेतनम् । तदुक्तार्पण तान् भद्राऽप्यग्रहौद्रत्नकम्बलान् ॥ ३४ ॥ मद्योग्यो गृह्यतामेको महामूल्योऽपि कम्बलः । इत्यूचे चेल्लणादेव्या तदा च श्रेणिको नृपः ॥ ३५ ॥. राज्ञाऽपि मूल्यपूर्व ते कम्बलं वणिजोऽर्थिताः । भद्रा जग्राह तान् सर्वान् कम्बलानित्यचौकथन् ॥ ३६ ॥ श्रेणिकः प्राहिणोदेकं प्रवीणं पुरुषं ततः। . भद्रापाखें मूल्यदानात्क बलादानहेतवे ॥ ३७॥ . याचिता तेन भद्रोचे छित्त्वा तान् रत्नकम्बलान् । शालिभद्रप्रियापादप्रोञ्छनौकतवत्यहम् ॥ ३८ ॥ कार्य निष्पद्यते किञ्चिज्जीर्णेश्चेद्रत्नकम्बलेः । तहत्वाऽऽपृच्च्य राजानमागच्छामून् ग्टहाण च ॥ ३८ ॥ आख्यहत्वा स तद्राने राजाचे चेल्लणाऽप्यदः । पश्यास्माकं वणिजां च रीतिहमोरिवान्तरम् ॥ ४० ॥ तमेव पुरुषं प्रेष्य श्रेणिकेन कुतूहलात् । आकारिते शालिभद्रे भद्रोपेत्य व्यजिज्ञपत् ॥ ४१ ॥ बहिर्नहि महीनाथ ! जातु याति मदात्मजः । प्रसादः क्रियतां देव ! महागमनेन मे ॥ ४२ ॥ कौतूहलाच्छणिकोऽपि तत्तथा प्रत्यपद्यत । तं च क्षणं प्रतीच्याथ साऽग्रे भूत्वा गृहं ययौ ॥ ४३ ॥