SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ टतीयः प्रकाशः । ५३५ 'धात्रीभिः पञ्चभिः पाल्यमानः स ववध क्रमात् । किञ्चिदूनाष्टवर्षः सन् पित्राऽप्यध्यापितः कलाः ॥ २३ ॥ संप्राप्तयोवनश्चासौ युवतीजनवल्लभः । सवयोभिः समं रेमे प्रद्युम्न इव नूतनः ॥ २४ ॥ तत्पुरश्रेष्ठिनोऽथैत्य कन्या हात्रिंशतं निजाः । प्रदातुं शालिभद्राय भद्रानाथं ययाचिरे ॥ २५ ॥ अथ प्रहृष्टो गोभद्रः शालिभद्रेण सादरम् । सर्वलक्षणसंपूर्णाः कन्यकाः पर्यणाययत् ॥ २६ ॥ शालिभद्रस्ततो रम्ये विमान इव मन्दिरे। . विललास समं ताभिः पतिर्दिविषदामिव ॥ २० ॥ विवेदानन्दमग्नोऽयं न रात्रिं न च वासरम् । तस्यापूरयतां भोगसामग्री पितरौ स्वयम् ॥ २८ ॥ श्रीवीरपादमूलेऽथ गोभद्रो व्रतमग्रहीत् । । कृत्वा चानशनं मृत्वा देवलोकं जगाम च ॥ २८ ॥ अवधिज्ञानतो ज्ञात्वा शालिभद्रं निजात्मजम् । तत्पुण्यावर्जित: सोऽभूत्पुत्रवात्सल्यतत्परः ॥ ३० ॥ दिव्यानि वस्त्रनेपथ्यादीन्यस्य प्रतिवासरम् । सभार्यस्यार्पयामास कल्पशाखीव सोऽमरः ॥ ३१ ॥ यद्यन्मोचितं कार्य भद्रा तत्तदसाधयत् । पूर्वदानप्रभावेण भोगान् सोऽभुङक्त केवलम् ॥ ३२ ॥ (१) ख ग च ड पाल्यमानः स धात्रीभिः पञ्चभिर्व-। (२) क सः ।
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy