________________
५३४
योगशास्त्रे
सोऽचिन्तयदिदं चिन्तामाणिक्य मिव चेतनम् । जङ्गमः कल्पशाखीव कामधेनुरिवापशुः ॥ १२ ॥ साधु साधु महासाधर्मद्भाग्यैरयमाययो। कुतोऽन्यथा वराकस्य ममेट्टकपात्रसङ्गमः ? ॥ १३ ॥ भाग्योदयेन केनापि ममाद्य समपद्यत । चित्तं वित्तं च पात्रं च त्रिवेणीसङ्गमो ह्ययम् ॥ १४ ॥ इत्यसौ स्थालमुत्याव्य पायसं साध ददौ । जग्राहानुग्रहायास्य महाकारुणिको मुनिः ॥ १५ ॥ ययौ च स मुनिर्गेहान्मध्याद् धन्याऽपि निर्ययौ। मन्ये भुक्तमनेनेति ददौ सा पायसं पुन: ॥ १६ ॥ तत्पायसमटतः सन्नाकण्ठं बुभुजेऽथ सः । तदजीर्णेन यामिन्यां स्मरन् साधुं व्यपद्यत ॥ १७॥ तेन दानप्रभावेण सोऽथ राजगृहे पुरे । गोभद्रेभ्यस्य भार्याया भद्राया उदरेऽभवत् ॥ १८ ॥ शालिक्षेत्रं सुनिष्पन्न स्वप्नेऽपश्यञ्च सा ततः । भर्तुः शशंस, सोऽप्यस्याः सूनुः स्यादित्यचौकथत् ॥ १८ ॥ चेद्दानधर्मकर्माणि करोमीति बभार सा । दोहदं, तं तु गोभद्रः पूरयापास भद्रधीः ॥ २० ॥ पूर्णे काले ततो भद्रा द्युतिद्योतितदिग्मुखम् । अमूत तनयं रत्नं विदूरं गिरिभूरिव ॥ २१ ॥ दृष्टस्वप्नानुसारेण सूनोस्तस्य शुभे दिने । चक्रतुः पितरौ शालिभद्र इत्यभिधां शुभाम् ॥ २२ ॥