SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ (१) तृतीयः प्रकाशः । राजा पुरं तदपरैरनुल्लङ्घितशासनः । शशास श्रेणिकः पाकशासनः स्वः पुरोमिव ॥ २ ॥ शालिग्रामेऽथ धन्येति काचिदुच्छिन्नवंशिका | बालं सङ्गमकं नाम समादाय समाययौ ॥ ३ ॥ वसंस्तत्र स पौराणां वत्सरूपाण्यचारयत् । अनुरूपा ह्यसौ रोरबालानां मृदुजीविका ॥ ४ ॥ अथापरेद्युः संजाते तत्त्रं कस्मिंश्चिदुत्सवे । पायसं सङ्गमोऽपश्यद् भुज्यमानं गृहे गृहे ॥ ५ ॥ गत्वा स्वगेहे जननीं ययाचे सोऽपि पायसम् । साऽप्युवाच दरिद्राऽस्मि महेहे पायसं कुतः ? ॥ ६ ॥ बालेन तेनाज्ञतया याच्यमाना मुहुर्मुहुः । स्मरन्ती पूर्वविभवं 'तारतारं रुरोद सा ॥ ७ ॥ तस्या रुदितदुःखेनानुविद्धहृदया इव । आगत्य `प्रतिवेशिन्यः पप्रच्छुर्दुःखकारणम् ॥ ८ ॥ ताभ्योऽभ्यधत्त सा दुःखकारणं गहदाक्षरैः । क्षीराद्यदुश्च तास्तस्यै साऽपचत् पायसं ततः ॥ ८ ॥ खण्डा हाज्यपायसैर्भृत्वा स्थालं बालस्य तस्य सा । आर्पयत्प्रययौ चान्तर्गृहं कार्येण केनचित् ॥ १० ॥ अत्रान्तरे च कोऽप्यागान्मुनिर्मासमुपोषितः । पारणाय भवोदन्वत्तारणायास्य नौरिव ॥ ११ ॥ ख ग च ड तारं तारं । (२) ५३३ क ख च प्रातिवेश्मन्यः ।
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy