SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ३३२ योगशास्त्र जिनानां दानदातारः प्रथमे मोक्षगामिनः । धनादयो दानधर्माहोधिबीजमुपार्जयन् ॥ ५० ॥ जिनानां पारणे भिक्षादातॄणां मन्दिराजिरे । हर्षोत्कर्षपराः सद्यः पुष्पवृष्टिं व्यधुः सुराः ॥ ५१ ॥ इत्यतिथिसंविभागवतमेतदुदीरितं प्रपञ्चेन । देयादेये पात्रापात्रे ज्ञात्वा यथोचितं कुर्यात् ॥ ५२ ॥ ८७ ॥ यद्यपि विवेकिनः श्रद्धावत: 'सत्पात्रदाने साक्षात्यारम्पर्येण वा मोक्ष: फलं, तथापि मुग्धजनानुग्रहार्थं पात्रदानस्य प्रासङ्गिक फलमाह-- पश्य सङ्गमको नाम सम्पदं वत्मपालकः । चमत्कारकरौं प्राप मुनिदानप्रभावतः ॥ ८८॥ : पश्येत्यनेन मुग्धबुद्धिमभिमुखयति। सङ्गमको नामेति सङ्गमकाभिधानः, वत्मपालो वत्मपालनजीवकः, चमत्कारकरौं सम्पदं प्राप; कुतः, मुनिदानप्रभावतः। अत्र सङ्गमकस्य पारम्पर्येण मोक्षोऽपि फलमस्ति, तथापि प्रासङ्गिकफलाभिधानरभसेन स नोक्तः । सङ्गमकचरितं च सम्प्रदायगम्यम् । स चायम् मगधेष्वस्ति निःसीमरत्नप्राग्भारभासुरम् । पुरं समुद्रवद्राजगह कुलग्राहं श्रियः ॥ १ ॥ १। क ग ड सा सुगन्ध्यदकपुष्पसकरत्व- ।
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy