________________
तीयः प्रकाशः। कुशास्त्रमात्रपाठेन सदा पण्डितमानिनः । तत्त्वतो नास्तिकप्राबा अपात्रमिति शंसिताः ॥ ४० ॥ इत्यपात्रं कुपात्रं च परिहत्य विवेकिनः । पात्रदाने प्रवर्तन्ते सुधियो मोक्षकाणिः ॥ ४१ ॥ दानं स्यात्सफलं पात्रे 'कुपात्रापरत्रयोरपि । पात्रे धर्माय तच्च स्यादधर्भाय तदन्ययोः ॥ ४२ ॥ पयःपानं भुजङ्गानां यथा विषविड़ये। कुपात्रापानयोर्दानं तद्भवविवृद्धये ॥ ४३ ॥ स्वादु क्षीरं यथर क्षिप्तं कटलाबुनि दुष्यति । दानं दत्तं शुद्धमपि कुपात्रापात्रयीस्तथा ॥ ४४ ॥ दत्ता कुपात्रापात्राभ्यां सर्वोळपि फलाय न । पात्राय दत्तो ग्रासोऽपि श्रद्धया स्यान्महाफलः ॥ ४५ ॥ इयं मोक्षफले दाने पानापानविचारणा । दयादानं तु तत्त्वज्ञैः कुत्रापि न निषिध्यते ॥ ४६ ॥ शुद्धाशद्धिकता भङ्गाश्चत्वारः पात्रदानयोः । आद्यः शुद्धो द्वितीयो वैकल्पिकोऽन्यौ तु निष्फलौ ॥४था दानेन भोगानाप्नोतीत्यविमृश्यैव भाष्यते । अनर्घ्यपात्रदानस्य क्षुद्रा भोगाः कियत्फलम् ? ॥ ४८ । पात्रदाने फवं मुख्यं मोक्षः शस्यं करिव । पलालमिव भोगास्तु फलं स्यादानुषङ्गिकम् ॥ ४८ ॥
(३) ग प हितीयस्तु पाक्षिको।
(१) ज ण नत्वपात्रकपात्त्रयोः। १२) क -द्भवति पाप्मने ।