SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ५३० ( g ) योगशास्त्रे कृतकारितानुमतिप्रमेदारम्भवर्जिताः । मोक्षैकतानमनसो यतयः पात्रमुत्तमम् ॥ ३० ॥ सम्यग्दर्शनवन्तस्तु देशचारित्रयोगिनः । यतिधर्मेच्छवः पात्रं मध्यमं गृहमेधिनः ॥ ३१ ॥ सम्यक्त्वमात्रसन्तुष्टा व्रतशीलेषु 'निःसहाः । तीर्थप्रभावनोद्युक्त्वा जघन्यं पात्रमुच्यते ॥ ३२ ॥ . कुशास्त्रश्रवणोत्पन्नवैराग्यानिष्परिग्रहाः । ब्रह्मचर्यरताः स्तेयमृषाहिंसापराङ्मुखाः ॥ ३३॥ घोरव्रता मौनजुषः कन्दमूलफलाशिनः । शिलोव्कवृत्तयः पत्रभोजिनो भैक्षजीविनः ॥ २४ ॥ कषायवस्त्रा निर्वस्त्राः शिखामौण्डाजटाधराः । एकदण्डास्त्रिदण्डा वा गृहारण्यनिवासिनः ॥ ३५ ॥ पञ्चाग्निसाधका ग्रोमे गलन्तीधारिणो हिमे । भस्माङ्गरागाः खट्वाङ्गकपालास्थिविभूषणाः ॥ ३६ ॥ स्वबुद्ध्या धर्मवन्तोऽपि मिथ्यादर्शनदूषिताः । जिनधर्मद्दिषो मूढाः कुपात्रं स्युः कुतोर्थिनः ॥ ३७ ॥ प्राणिप्राणापहरणा मृषावादपरायणाः । परस्वहरणोद्युक्ताः प्रकामं कामगर्दभाः ॥ ३८ ॥ परिग्रहारम्भरता न सन्तुष्टाः कदाचन । मांसाशिनो मद्यरताः कोपनाः कलहप्रियाः ॥ ३८ ॥ म ण निःस्पृहाः । (२) ख च ञ कुतीर्थिकाः ।
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy