SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ ५२८ योगशास्त्रे स्वर्णमयी रूप्यमयी तिलमय्याज्यमय्यपि । विभज्य भुज्यते धेनुस्तद्दातुः किं फलं भवेत् ? ॥ ८ ॥ कामगईकरौ बन्धुस्नेह द्रुमदवानलः । कलेः कलितरुर्दुर्गदुर्गतिद्दारकुञ्चिका ॥ १० ॥ मोक्षदारागंला धर्मधनचौरी विपत्करी | या कन्या दीयते साऽपि श्रेयसे, कोऽयमागमः ? ॥ ११ ॥ विवाहसमये मूढैर्धर्मबुद्या विधीयते । यत्तु यौतुकदानं तत्स्याद्भस्मनि हुतोपमम् ॥ १२ ॥ यत् संक्रान्तौ व्यतीपाते वैष्टते पर्वणोरपि । दानं प्रवर्त्तितं लुब्धेर्मुग्धसंमोहनं हि तत् ॥ १३ ॥ मृतस्य तृप्यै ये दानं तन्वन्ति तनुबुद्धयः । ते हि सिञ्चन्ति मुशलं सलिलैः पल्लवेच्छया ॥ १४ ॥ विप्रेभ्यो भोजने दत्ते प्रीयन्ते पितरो यदि । एकस्मिन् भुक्तवत्यन्यः पुष्टः किं न भवेदिह ? ॥ १५ ॥ अपत्यदत्तं चेद्दानं पितॄणां पापमुक्तये । पुत्रेण तप्ते तपसि तदा मुक्तिं पिताऽऽप्नुयात् ॥ १६ ॥ गङ्गायादौ दानेन तरन्ति पितरो यदि । 'तत्त्रोच्यन्तां प्ररोहाय ग्टहे दग्धा द्रुमास्तदा ॥ १७ ॥ गतानुगतिकैः तृप्तं न दद्यादुपयाचितम् । फलन्ति हन्त ! पुण्यानि पुण्याभावे मुधैव तत् ॥ १८ ॥ (१) क ख च तत्त्रोप्यन्तां । (२) अ वह्निदग्धाः ।
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy