________________
टतीयः प्रकाशः। गच्छति कतिचित्पदानि ; ततः स्वयं भुङ्क्ते ॥ यदि पुनस्तत्र ग्रामादौ साधवो न भवन्ति तदा भोजनवेलायां हारावलोकनं करोति, विशुद्धभावेन च चिन्तयति यदि साधवोऽभविथन् तदा निस्तारितोऽहमभविथमिति। एष पोषधपारणके विधिः । अन्यदा तु दत्त्वा भुङ्क्ते, भुक्त्वा वा ददातीति । अत्रान्तरश्लोकाः
अन्नादीनामिदं दानमुक्तं धर्मोपकारिणाम् । धर्मोपकारबाह्यानां स्वर्णादीनां न तन्मतम् ॥ १ ॥ दत्तेन येन दीप्यन्ते क्रोधलोभस्मरादयः । न तत्स्वर्णं चरित्रिभ्यो दद्याच्चारित्रनाशनम् ॥ २ ॥ यस्यां विदार्यमाणायां म्रियन्ते जन्तुराशयः । क्षितस्तस्याः प्रशंसन्ति न दानं करुणापराः ॥ ३ ॥ यद्यच्छवं महाहिंस्रं तत्तद्येन विधीयते । तदहिंस्रमना लोहं कथं दद्याहिचक्षणः ? ॥ ४ ॥ संमूर्च्छन्ति सदा यत्र भूयांसस्त्रसजन्तवः ।। तेषां तिलानां को दानं मनागप्यनुमन्यते ? ॥ ५ ॥ दद्यादईप्रसूतां गां यो हि पुण्याय पर्वणि । - नियमाणामिव हहा ! वर्ण्यते सोऽपि धार्मिकः ॥ ६ ॥ यस्या अपाने तीर्थानि मुखेनानाति याऽशुचिम् । तां मन्वानाः पवित्रां गां धर्माय ददते जडाः ॥ ७ ॥ प्रत्यहं दुह्यमानायां यस्यां वत्सः प्रपोद्यते । खुरादिभिजन्तुघ्नीं तां दद्याहां श्रेयसे कथम् ? ॥ ८ ॥