________________
५२६
योगशास्त्र
'जिणा बारसरूवानो थेरा चोहसरूविणो ।
अजाणं पसवीसं तु अश्रो उर्ल्ड उवग्गहो ॥ १ ॥ इत्याद्यागमादवगन्तव्यं, इह तु ग्रन्थगौरवभयान्न प्रतन्यते । इह होता सामाचारी। श्रावकेण पोषधं पारयता नियमात्साधुभ्यो दत्त्वा भोक्तव्यम् । कथम् ? । यदा भोजनकालो भवति तदा आत्मनो विभूषां कृत्वा प्रतिश्रयं गत्वा साधून् निमन्त्रयते ; भिक्षा ग्रहीतेति ॥ साधूनां च तं प्रति का प्रतिपत्तिः । उच्यते । तदैकः पट. लकमन्यो मुखानन्तकमपरो भाजनं प्रत्यवेक्षते ; माऽन्तरायदोषाः स्थापनादोषा वा भूवनिति । स च यदि प्रथमायां पौरुष्यां निमन्त्रयते ; अस्ति च नमस्कारसहितप्रत्याख्यानी, ततस्तदृह्यते । अथ नास्त्यसौ तदा न गृह्यते. यतस्तद्दोढव्यं भवति । यदि पुनर्धनं लगेत, तदा ग्राह्यते संस्थाप्यते च ; यो वा उहाटपौरुष्यां पारयति पारणकवानन्यो वा तस्मै तद्दीयते ; पश्चात्तेन श्रावकेण समं सङ्घाटको व्रजति, एको न वर्त्तते प्रेषयितुं ; साधुपुरतः श्रावकस्तु मार्गे गच्छति, ततोऽसौ गृहं नीत्वा तावासनेनोपनिमन्त्रयते ; यदि निविशेते, तदा भव्यम्, अथ न निविशेते, तथापि विनयप्रयुक्तो भवति, ततोऽसौ भक्तं पानं च वयमेव ददाति, भाजनं वा धारयति, स्थित एवास्ते यावद्दीयते ।. साधू अपि पश्चात्कर्मपरिहरणार्थं सावशेषं गृहीतः, ततो वन्दित्वा विसर्जयति, अनु
(१) जिना हादरूपाः स्थविराचतुर्दशरूपिणः ।
आर्याणां पञ्चविंशतिस्तु अत अमुपग्रहः ॥ १ ॥ (२) खच पारण के दातव्यो वा तस्मै ।