________________
५२.
योगशास्त्रे .
अनेन हिरण्यादिदाननिषेधस्तेषां यतेरनधिकारात्। तदेतदतिथिसंविभागवतमुच्यते । अतिथेः सङ्गतो निर्दोषो विभागः पश्चात्कर्मादिदोषपरिहारायांशदानरूपोऽतिथिसंविभागस्तद्रूपं व्रतम तिथिसंविभागवतम् । आहारादीनां च न्यायार्जितानां प्रासुकैषणीयानां कल्पनीयानां च देशकाल श्रद्धा सत्कारपूर्वकमात्मानुग्रहबुद्ध्या यतिभ्यो दानम तिथिसंविभागः । यदूचुः --
'नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं दवाणं देसकालसहासकारक्कमजुनं पराए भत्तौए आयाणग्गहबुद्धौए संजयाणं दाणं अतिहिसंविभागो। अनूदितं चैतत्
प्रायः शुद्धैस्त्रिविधविधिना प्रासुकैरेषणीयः कल्पाप्रायैः स्वयमुपहतैर्वस्तुभि: पानकाद्यैः। काले प्राप्तान् सदनमसमथडया साधुवर्गान् धन्याः केचित्परमवहिता हन्त ! संमानयन्ति ॥ १ ॥ अशनमखिलं खाद्यं स्वाद्यं भवेदथ पानकं यतिजनहितं वस्त्रं पात्रं सकम्बलप्रोञ्छनम् । वसतिफलकप्रख्यं मुख्यं चरित्रविवईनं निजकमनसः प्रोत्याधायि प्रदेयमुपासकैः ॥ २ ॥
(१) न्यायागतानां कल्पनीयानां अन्नपानादीनां द्रव्याणां देशकालश्रद्धासत्कारक्रमयुतं परया भक्या प्रात्मानु प्रहबुद्धमा संयतानां दानं अतिथिमविभागः।