________________
तृतीयः प्रकाशः ।
५१८ तथैव प्रतिपदेऽथ तहाचं चुलनीपिता। चकारालोचनां तस्य व्रतभङ्गस्य शुद्धधीः ॥ ६५ ॥ अथैकादश भेजेऽसौ श्रावकप्रतिमाः क्रमात् । सोपानानीव स स्वर्गसौधारोहणकर्मणे ॥ ६६ ॥ निस्त्रिंशधारानिशितं स एवं श्रावकव्रतम् । सुचिरं पालयामास भगवद्दचनोचितम् ॥ ६७ ॥ ततः संलेखनापूर्व प्रपद्यानशनं सुधीः । मृत्वा सौधर्म उत्येदे विमाने सोऽरुणप्रभे ॥ ६८ ॥ दुष्पालमेवं चुलनीपिता यथा तत्यालयामास स पोषधव्रतम् । ये पालयन्त्येव तथा परेऽप्यदो दृढव्रतास्ते खलु मुक्तिगामिनः ॥ ६८ ॥
॥ इति चुलनीपितुः कथानकम् ॥ ८६ ॥ इदानी चतुर्थं शिक्षाव्रतमाहदानं चतुर्विधाहारपात्राच्छादनसद्मनाम् । अतिथिभ्योऽतिथिसंविभागव्रतमुदीरितम् ॥ ८७ ॥ अतिथिभ्यस्तिथिपर्वाद्यत्मवरहितेभ्यो भिक्षार्थं भोजनकाले उपस्थितेभ्यः साधुभ्यो, दानं विश्राणनं, चतुर्विधस्याशनपानखाद्यस्वाद्यरूपस्याहारस्य, पात्रस्यालाब्वादेः, आच्छादनस्य वस्त्रस्य कम्बलस्य वा, सद्मनो वसतरुपलक्षणात्पीठफलकशय्यासंस्तारकादीनामपि ।