________________
तौयः प्रकाश: ।
५१७
भवतः प्रेक्षमाणस्य पुरस्त पिशितान्यहम् । क्षिप्ता कटाहे पक्ष्यामि शूलभेक्ष्यामि तत्क्षणात् ॥ ४३ ॥
आचमिष्यामि तन्मांसशोणितानि तथाऽधुना । प्रेक्षमाणो यथा हि त्वं स्वयमेव विपत्स्यमे ॥ ४४ ॥ . देवब्रुवे विवति तत्रैवं चुलनीपिता। न चकम्मे केसरीव गर्जत्यर्जितमम्बुदे ॥ ४५ ॥ प्रक्षोभं प्रेक्षमाणस्त चुलनीपितरं सुरः। विभीषयितुकामस्तं तयैवो वे पुनः पुनः ॥ ४६ ॥ एवं विभाषमाणस्य सुरस्य चुलनी पिता। न सम्मुखमपि प्रेक्षाञ्चक्रे शुन इव हिपः ॥ ४७ ॥ स विकृत्य पुरो ज्येष्ठतनयं चुलनीपितुः। निस्त्रिंशेन नृशंसात्मा पशवद् व्यशमत्ततः ॥ ४८ ॥ छित्वा क्षिप्ता कटाहान्तस्तन्मांसानि पपाच च । बझज्ज च शितैः शूलैराचचाम च सोऽमरः ॥ ४ ॥ अधिसेहे च तत्सर्वं तत्त्वज्ञः चुलनीपिता। अन्यत्वभावनाभाजां खाङ्गच्छेदोऽपि नार्त्तये ॥ ५० ॥ अथो वे स सुरो रे रे ! व्रतमद्यापि नोज्झसि । तद ज्येष्ठमिव ते पुत्रं हन्मि मध्यममप्यहम् ॥ ५१ ॥ ततोऽहन्मध्यमं पुत्रं तथैवीचे पुनः पुन:।। निरीत्याक्षुभितं तं च कनिष्ठं चावधीत्सुतम् ॥ ५२ ॥ तत्राप्यालोक्य निष्कम्पं तं क्रुद्धः स सुरोऽब्रवीत् । नाद्याप्युज्झसि पाखण्डं मातरं ते विहन्मि तत् ॥ ५३ ॥