________________
टतीय: प्रकाशः ।
५०७
चेति, त्रिविधेन करणन न करोमि न कारयामीति सूत्रीपात्तमेवं हिविधमित्यस्य विवरणम्। किं पुन: कारणमुद्देशक्रममतिलय व्यत्यासेन निर्देशः कृतः । उच्यते । योगस्य करणाधीनतोपदर्शनार्थम् । करणाधीनता हि योगानाम्, करणभावे भावात्तदभावे चाभावाद्योगस्य । तस्मेति, तस्य अनाधिक्कतो योगः संबध्यते ; अवयवावयविभावलक्षणसम्बन्ध षष्ठी ; योऽयं योगस्त्रिकालविषयस्तस्यातीतमवयवं प्रतिक्रामामि निवर्ते प्रतीपं कामामीत्यर्थः ; निन्दामि जुगुप्से गर्हामि स एवार्थः, केवलमात्मसाक्षिको निन्दा, गुरुसाक्षिको गरे । भन्ते इति पुनर्गुरोरामन्त्रणं भक्त्यतिशयख्यापनार्थं न पुनरुक्तम् ; अथवा सामायिकक्रियाप्रत्यर्पणाय पुनर्गुरोः सम्बोधनम् । अनेन चैतत् ज्ञापितं भवति, सर्वक्रियाऽवसाने गुरोः प्रत्यर्पणं कार्यमिति । उक्लं च भाष्यकारण--
'सामाइयपच्चप्पणवयणोवायं भयंतसहोत्ति।
सवकिरियावसाण भणियं पच्चप्पणमणण ॥ १ ॥ अप्पाणमिति ; आत्मानमतीतकालसावद्ययोगकारिणम् ; वोसिरामीति, व्युत्सृजामि ; विशब्दो विविधार्थी विशेषार्थो वा ; उच्छब्दो भृशार्थः। विविधं विशेषेण वा भृशं सृजामि त्यजामौत्यर्थः । अत्र च करेमि भंते सामाइयमिति वर्तमानस्य
(१) सामायिक प्रत्यण वचनोपायो भदन्त शब्द इति ।
सर्व क्रियाऽवसाने भणितं प्रत्यर्पण मनेन ॥ १ ॥