________________
५०६
योगशास्त्रे
'नाणस्म होइ भागी थिरयरो दंसणे चरित्ते य ।
धन्ना आवकहाए गुरुकुलवासं न मंचंति ॥ १ ॥ अथवा भवान्तहेतुत्वाद्भवान्तः, भन्ते इत्यार्षत्वात् मध्यव्यञ्जनलोपे रूपं भन्ते इति “अत एसो पुंसि मागध्याम्” ॥ ८ । ४ । २८७ ॥ इत्येकारोऽईमागधवादार्षस्य सामायिकमुक्तनिर्वचमम् । अवा पापं, सहावद्येन सावद्यः, युज्यते इति योगो व्यापारस्तं प्रत्याख्यामि ; प्रतीति प्रतिषेधे आङाऽऽभिमुख्ये, ख्यांक प्रकथने, ततश्च प्रतीपमभिमुखं ख्यापकं सावद्ययोगस्य करोमौत्यर्थः । . अथवा पञ्चक्खामोति प्रत्याचक्षे, चक्षिक व्यक्तायां वाचीत्यस्य प्रत्यापूर्वस्य रूपम् ; प्रतिषेधस्यादरेणाभिधानं करोमीत्यर्थः । जाव साहू पज्जुवासामि ; यावच्छब्दः परिमाणमर्यादाऽवधारणवचनस्तत्र परिमाणे यावत्साधुपर्युपासनं मम तावत्प्रत्याख्यामीति; मर्यादायां साधुपर्युपासनादर्वाक्, अवधारणे यावत्साधुपर्युपासनं तावदेव न तस्मात्परत इत्यर्थः । दुविहं तिविहेणं ; हे विधे यस्य स हिविधः सावद्यो योगः स च प्रत्याख्येयत्वेन कर्म सम्पद्यते ; अतस्तं द्विविधं योगं करण कारणलक्षणमनुमतिप्रतिषेधस्य गृहस्थैः कर्तुमशक्यत्वात् पुत्रभृत्यादिक्कतस्य व्यापारस्य स्वयमकरणऽप्यनुमोदनात् विविध नेति करण दृतीया । मणेणं वायाए कारणं इति. विविधस्यैव सूत्रोपात्तं विवरणं, मनसा वाचा कायेन
(३) ज्ञानस्य भवति भागी स्थिरतरको दर्शने चरित्रे च ।
धन्या यावत्कथायां गुरुकुलवासं न मुञ्चन्ति ॥ १ ॥