SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ तीयः प्रकाशः । ५०५ करोति तदायं विधिः ; यदि कस्माच्चिदपि भयं नास्ति, केनचिद्दिवादो नास्ति, ऋणं वा न धारयति ; मा भूत्तत्कृताकर्षणापकर्षणनिमित्तश्चित्तसंक्लेश: ; तदा स्वग्रहेऽपि सामायिक कृत्वा ईयां शोधयन, सावद्यां भाषां परिहरन्, काष्ठ लेष्ट्वादिना यदि कार्य तदा तत्स्वामिनमनुज्ञाप्य प्रतिलिख्य प्रमार्य च गृह्णन्, खेलसिङ्घाणकादोंथाविवेचयन् विवेचयंश्च स्थण्डिलं प्रत्यवेक्ष्य प्रमृज्य च ; एवं पञ्चसमितिसमितस्त्रिगुप्तिगुप्तः साध्वाश्रयं गत्वा साधूनमस्कृत्य सामायिकं करोति यथा-- करेमि भंते सामाइयं सावज्जं जोगं पञ्चक्खामि जाव साहू पज्जुवासामि दुविहं तिविहेणं मणेणं वायाए काएणं न करेमि न कारवमि तस्म भंते पडिकमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥ . सामायिक सूत्रस्थायमर्थ:-करेमि अभ्युपगच्छामि ; भंते इति गुरोरामन्वणम्, हे भदन्त ! भन्दते सुखवान् कल्याणवांश्च भवति ; भदुङ् सुखकल्याणयोः, अस्य औणादिकान्तप्रत्ययान्तस्य निपातनात् रूपम् । आमन्त्रणं च प्रत्यक्षस्य गुरोस्तदभावे परोक्षस्यापि बद्या प्रत्यक्षौवातस्य भवति ; यथा जिनानामभावे जिनप्रतिमाया आरोपितजिनवाया: स्तुतिपूजासम्बोधनादिकं भवति, गुरोश्चाभिमुखीकरणं तदायत्तः सर्वो धर्म इति प्रदर्शनार्थम् । यदाह -
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy