SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ टतीयः प्रकाशः । मार्गखेदः, तो मुक्खा सकलां निशां स्वापो निद्रा। रोगमार्गश्रमयोस्तु न प्रमादाचरणम् । एवमादिपूर्वोक्तखरूपं प्रमादाचरणं परिहरेत् । सुधी: श्रमणोपासकः । प्रमादाचरितं च 'मज्जं विसयकसाया निद्दा विगहा य पञ्चमी भणिया। एए पञ्च पमाया जीवं पाडेन्ति संसारे ॥ १ ॥ इति पञ्चविधस्य प्रमादस्य प्रपञ्चः ॥ ७८ ॥ ७८ ॥ ८० ॥ देशविशेषे प्रमादपरिहारमाह· विलासहासनिष्ट्रातनिद्राकलहदुष्कथाः । जिनेन्द्रभवनस्यान्तराहारं च चतुर्विधम् ॥ ८१॥ जिनेन्द्रभवनस्यान्तरित्यादित आरभ्य संबध्यते ; तेन जिनेन्द्रभवनस्य मध्ये विलासं कामवेष्टां, हासं कहकहध्वानं हसनं, निष्ट्रातं निष्ठीवनं, निद्रां स्वापं, कलहं राटौं, दुष्कथां चौरपारदारिकादिकथां, चतुर्विधं चाहारम्-अगनपानखाद्य स्वाद्य खरूपं परिहरेत्। परिहरेदिति पूर्वतः सम्बन्धनीयम् । तत्राशनं शाल्यादि मुहादि सबादि पेयादि मोदकादि क्षीरादि सूरणादि मण्ड कादि च । यदाह (१) मद्यं विषय कषाया निद्रा विकथा च पञ्चमी भणिता । एते पच प्रमादा जीवं पातयन्ति संसारे॥१॥
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy