________________
टतीयः प्रकाश:।
४६८
म्योऽपवादोऽयमुचते । दाक्षिण्याविषय इति । बन्धुपुत्रादिविषयदाक्षिण्यवत: पापोपदेशोऽशक्यपरिहारः। दाक्षिण्याभावे तु यथा तथा मौखर्येण पापोपदेशो न कल्पते ॥ ७६ ॥ अथ हिंसोपकारीणि तहानपरिहारं चाह -
यन्त्रलाङ्गलशस्त्राग्निमुशलोटूखलादिकम् ।
दाक्षिण्याविषये हिंस्रं नार्पयेत्करुणापरः ॥ ७७॥ यन्त्रं शकटादि, लाङ्गलं हलं, शस्त्रं खगादि, अग्निर्वह्निः, मुशलमयोऽयं, उदूखलमुलूखलं, आदिशब्दाधनुर्भस्त्रादिपरिग्रहः । हिंस्त्रं वस्तु, करुणापरः श्रावको नार्पयेत् ; दाक्षिण्याविषय इति पूर्ववत् ॥ ७७॥ अथ प्रमादाचरणमनर्थदण्डस्य चतुर्थभेदं तत्परिहार
___ च श्लोकत्रयेणाहकुतूहलाद्गीतनृत्तनाटकादिनिरीक्षणम्। कामशास्त्रप्रसक्तिश्च द्यूतमद्यादिसेवनम् ॥ ७८ ॥ जलक्रीडाऽऽन्दोलनादिविनोदो जन्तुयोधनम् । रिपोः सुतादिना वैरं भक्तस्त्रोदेशराटकथाः ॥ ७६ ॥ रोगमार्गश्रमौ मुक्ता स्वापश्च सकलां निशाम् ।
एवमादि परिहरेत्यमादाचरणं सुधीः ॥ ८० ॥ कुतूहलाकौतुकाडेतोतस्य नृत्तस्य भाटकस्य श्रादिशब्दात्प्रकरणादेनिरीक्षण, तेन तेनेन्द्रियेण यथोचितं विषयीकरणम् ।