SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ ४८८ योगशास्त्रे यदाह 'जं इंदियसयणाई पडुच्च पावं करेज्ज सो होइ। अत्थे दंडो एत्तो अमो उ अगस्थदंडो उ ॥ १ ॥ ७३ ॥ ७४ ॥ . अपध्यानस्य स्वरूपं परिमाणं चाह वैरिघातो नरेन्द्रत्वं पुरघाताग्निदीपने। खचरत्वाद्यपध्यानं मुहूर्तात्परतस्त्यजेत् ॥ ७५ ॥ वैरिघातपुरघाताग्निदीपनादिविषयं रौद्रध्यानमपध्यानं, नरेन्द्र त्वं खचरत्वमादिशब्दादप्सरीविद्याधरीपरिभोगादि, तेष्वार्तध्यानरूपमपध्यानं, तस्य तत्परिमाणरूपं व्रतं मुहूर्तात्यरतस्त्यजेदिति ॥२५॥ अथ पापोपदेशस्वरूपं तहिरतिं चाह-- वृषभान् दमय क्षेत्र कृष षण्ढय वाजिनः । दाक्षिण्याविषये पापोपदेशोऽयं न कल्पते ॥ ७६ ॥ वृषभान् वत्सतरान् प्रसङ्गादिना दमय दान्तान् कुरु ; प्रत्यासी. दति खलु वर्षाकालः, तथा क्षेत्र बोजावापभुवं कृष ; दृष्टः खलु मेघो, यास्यति वापकालो, भृता वा केदारा गाह्यन्तां, साईदिनत्रयमध्ये उप्यन्तां च ब्रोहयः ; तथा नेदीयोऽश्व: प्रयोजनं राज्ञामिति षण्ढय वर्दितकान् कुरु, वाजिनोऽश्वान्, उपलक्षणं चेत दन्येषां ग्रीष्मे दवाग्निदानादीनाम् ; अयं पापरूप उपदेशः, श्रावकाणां न कल्पते न युज्यते। सर्वत्र पापोपदेशनियमं कर्तुमशक्त (१) यदिन्द्रियस्वजनादीन् प्रतीत्य पापं कुर्यात् स भवति । बर्थे दण्डः इतः अन्यस्तु अनर्थदण्डस्तु १ ॥ .
SR No.002394
Book TitleYogshastra Part 03
Original Sutra AuthorHemchandracharya
AuthorVijaydharmsuri
PublisherAsiatic Society of Bengal
Publication Year1910
Total Pages204
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy