SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ चिकित्साकलिका। इत्यातुरस्य निरुजोऽथ जनस्य नित्य मन्नान्यथौषधमुपाचरतो न रोगाः ॥ ९४ ॥ यत्पथ्यं पूर्वोक्तानां मध्यात् यस्यातुरस्य यौगिकं युक्त्या बुध्यते । इत्येतत् प्रविकल्प्य तस्मै आमयिने विकारिणे तदेव भिषजा प्रदेयं प्रदातव्यम् । इत्यातुरस्य विकारिणो जनस्य लोकस्य निरुजो निर्गतविकारस्य नित्यं सर्वदा अन्नानि पूर्वोक्तानि पथ्यानि । औषधं च पूर्वोतं वक्ष्यमाणकञ्चम् । उपाचरतः उपयोगं कुर्वतः रोगाः न भवन्तीति ॥९४ ॥ __ वैद्य को चाहिये कि वह जिस रोगी के लिये जो पथ्य उचित हो उसको वही पथ्य सेवन करावे। इस प्रकार रोगी और स्वस्थ पुरुष प्रतिदिन उचित पथ्थ सेवन करते हुए रोगों से मुक्त रह सकते हैं ॥ ९४ ॥ पूर्वमुक्तं प्रतिज्वरादिप्रविभक्तभेषजैरन्या क्रिया वक्ष्यते । तेषां च ज्वरादीनां येन क्रमेण चिकित्सितमुच्यते तदुद्देशार्थमाह ज्वरातिसारग्रहणीविकारिणां ततोऽर्शसां चापि भगन्दरावताम् । सशोफरोगोदरगुल्मरोगिणां सविद्रधीनां गलगण्डमालिनाम् ॥ ९५ ॥ . विस्फोटकश्लीपदवातरक्तिनां विसर्पकुष्ठामयिनां किलासिनाम् । प्रमेहिणां पाण्डुविकारिणां नृणां सश्वासकासामयरक्तपित्तिनाम् ।। ९६ ॥ सड़मीहिक्किषु शूलरोगिषु प्रोक्तं युदावर्तिषु मूत्रकृच्छिषु । सराजयक्ष्मक्रिमिषु प्रकीर्तितं चिकित्सितं कायचिकित्सितं मया ॥ ९७ ॥ मया कायचिकित्सिते चिकित्सितं ज्वरादीनां प्रकीर्तितम् । ज्वरश्च. अतीसारश्च ग्रहणीविकारश्च ज्वरातिसारग्रहणीविकाराः ।
SR No.002391
Book TitleChikitsa Kalika
Original Sutra AuthorN/A
AuthorNarendranath Mtra
PublisherMitra Ayurvedic Pharmacy
Publication Year
Total Pages274
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy