________________
चिकित्साकलिका। ते ज्वरातीसारग्रहणीविकाराः सन्ति येषां ते तथा तेषाम् । ततोऽनन्तरमर्शसाम् । अशंसोऽनन्तरं भगन्दरावतां च । शोफरोगश्च उदरं च गुल्मरोगिणश्च ते तथा । सह शोफादिभिर्वर्तन्ते ये ज्वरादयः तेषां स विद्रधीनाम्। तेषामनन्तरंगलगण्डमालिनाम् । गलगण्डश्च गण्डमाला च चगलगण्डमाले ते विद्यते येषां ते गलगण्डमालिनः तेषाम् । एकस्य गण्डशब्दस्य लोपो द्रष्टव्यः । दृश्यन्ते च तन्त्रेषु आदिमध्यान्तलोपाः । तदनु विस्फोटकाश्च श्लीपदानि च वातरक्तं च तानि विद्यन्ते येषाम् ते तथा तेषाम् । विसर्पश्च कुष्ठामयश्च विसर्पकुष्ठामयौ तौ विद्यते येषां ते विसर्पकुष्ठामयिनः तेषाम् । ततोऽनु किलासिनां श्वित्रिणामित्यर्थः । ततो ऽनन्तरं प्रमेहिणां पाण्डुविकारिणां नृणाम् । सश्वासकासामयरक्तपित्तिनाम् । श्वासश्च कासामयश्च श्वासकासामयौ। रक्तपित्तं विद्यते येषां ते रक्तपित्तिनः । सह श्वासकासामयाभ्यां रक्तपित्तिनः, सश्वासकासामयरक्तपित्तिनः तेषाम् । तृट् तृष्णा । वमी छर्दिः, हिका हिध्मा एतानि विद्यन्ते येषां ते तृड्वमीहिक्किनः। सह तृड्वमीहिक्किभिर्वर्त्तन्ते इति, सतृड्वमीहिक्किनः । के ते? शूलरोगिणः तेषु सतृड्वमीहि किषु शूलरोगिषु । उदावर्तिषु च मूत्रकृच्छिषु च । सराजयक्ष्मकृमिषु पूर्वोक्तेषु । एषां सर्वेषां प्रोक्तं चिकित्सितम् । कायचिकित्सितं मयेति ॥ ९५-९७ ॥
चिकित्साकलिका के कायचिकित्साविभाग में ज्वर, अतीसार, संग्रहणी, अर्श, भगन्दर, शोफरोग, उदररोग, गुल्म, विद्रधि, गलगण्ड, गण्डमाला, विस्फोटक, श्लीपद, वातरक्त, विसर्प, कुष्ट, किलास, (चित्र) प्रमेह, पाण्डु, श्वास, कास, रक्तपित्त, तृष्णा, छर्दि, हिक्का, शूल, उदावर्त्त, मूत्रकृच्छ्र, राजयक्ष्मा तथा क्रिमिरोग से पीडितों की यथाक्रम चिकित्सा कही गई है ॥ ९५-९७ ॥ कायचिकित्सितानन्तरं शालाक्यादीनामुद्देशमाह
शालाक्यशल्यामयभूतविद्याकौमारतन्त्रं विषतन्त्रमुक्तम् । रसायनं तन्त्रमनन्तरश्च
वाजीकरं तन्त्रमपि प्रदिष्टम् ॥ ९८॥ कायचिकित्सानन्तरं शालाक्यम् । तदनन्तरं शल्यामयम् । तदनन्तरं भूतविद्या । ततः कौमारतन्त्रम् । तन्त्रशब्दस्यान्ते परिपठि