________________
चिकित्साकलिका। माणिमन्थम् । घृतं गव्यम् । सह तैर्वर्तन्ते यानि पथ्यानि तानि साजाजिसैन्धवघृतानि तैः । अथ तक्रयुक्तैः । तत्रं मथितं तेन युक्तैः । लावादिभिर्मासरसैश्च । लावश्च एणश्च । एणः कृष्णहरिणः। तित्तिरिश्व कृष्ण तित्तिरिः । कपिंजलश्च । कपिञ्जलो गौरतित्तिरिः । केकी च । केकी मयूरः । कूर्मश्च । कूर्मः कच्छपः । गोधाश्च क्रकरश्च शशश्च । क्रकरो वान्तकः कपिञ्जलात् पृथुः । लावैणतित्तिरिकपिअलकेकिकूर्मगोधाशशककराः । तेषां मांसानि तैः रसाः तैः । समांसैः मांससहितः । पिशितं मांसं तेन प्रलेहाः तैः । सस्वादुदाडिमरसैः प्रलेहै सरसैश्च । स्वादुदाडिमं मधुरदाडिमं तस्य रसः स्वादुदाडिमरसः, सह स्वादुदाडिमरसेन वर्त्तन्ते प्रलेहाः मांसरसाश्च तैः । दुग्धश्च क्षीरैः ऋतैः कथितैः । शर्करया समेतैः दुग्धैरेव शाकैश्च कलायादिभिः । कलायश्च लघुमूलकं च । लघुमूलकं मूलकपोतिका । तन्दुलीयश्च चिल्ली च । चिल्ली क्षेत्रवास्तुकः । पटोलं च दलं च । पत्रं पटोलस्यैव । वास्तुकश्च कासमर्दश्च कलायलघुमूलमूलकतन्दुलीयचिल्लीपटोलदलवास्तुककासमर्दाः तैः । वार्ताकं भण्टकः । पुष्पफलं कूष्माण्डम् । तदाख्यानि शाकानि तैः कृता ये प्रकाराः । एभिः सर्वेरेवौदनादिभिः पथ्यैः कृतैराचरितैः रोगा न भवन्ति इति ॥ ९१-९३॥
पुराने श्वेत सांठी के चावल तथा पुराने लाल शालि का मृदु ओदन, घृत, मूंग तथा मसूर की दाल, गेहूँ का मण्ड, जौ के सत्त, जीरा, घी एवं सैन्धानमक से संस्कृत भोजन, छाछ, लाव, हरिण, तीतर, कपिजल (गोरैया ), मोर, कछुआ, गोधा (गोह) शशक, ककर (पक्षीविशेष) इनका मांस तथा मांसरस, अनार के रस से संस्कृत प्रलेह, खांडयुक्त उबाला हुआ दूध, एवं मटर, बालमूलक (कच्चीमूली), चौलाई, चिल्ली (बथुआ), पटोलपत्र, जंगली बथुआ, कसौंदी, बैंगन तथा कूष्माण्ड (पेठा); इनका शाक पथ्य है। इस प्रकार पथ्य का सेवन करते हुए पुरुष को रोग नहीं सताते ॥९१-९३ ॥
साम्प्रतं एतत्पूर्वोक्तं पथ्यं सामान्येनोकं सर्वविकारिणां । यद्यस्य योगिक तत्तस्मै प्रदेयमित्याह
यद्यस्य यौगिकमिति प्रविकल्य पथ्यं तस्मै तदेव भिषजामयिने प्रदेयम् ।