SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ चिकित्साकलिका। साम्प्रतं श्रेष्ठं येषां रोगिणां लङ्घनं पूर्वाचार्येणोक्तं तदाह आदौ ज्वरे ज्वरवतः कफजे विशेषादामातिसारिणि च शोणितपित्तरोगे । छा शिरोरुजि बलाससमुद्भवायां नेत्रामयेषु कफजेषु विसूचिकायाम् ।। ८७ ॥ विस्फोटकामयिनि वक्त्रविकारवत्सु सद्यःप्रसूतवनितासु च शोफवत्सु । . सद्यःक्षतेषु नृषु लङ्घनमुद्दिशन्ति वैद्या यथावलमजीर्णविकारिणां च ॥ ८८ ॥ वैद्या लङ्घनमुद्दिशन्ति ज्वरादिषु । आदौ प्रथमं ज्वरवतः । ज्वरो विद्यते यस्यासौ ज्वरवांस्तस्य । ज्वरे सति कफजे ज्वरे विशेषात् विशेषेण लङ्घनम् । आमातिसारिणि च सामेऽतिसारे। शोणितपित्तरोगे रक्तपित्ते । छा वम्याम् । शिरोरुजि मस्तकरुजि । बलाससमुद्भवायां द्वयोरपि विशषणम् । नेत्रामयेषु च लोचनविकारेषु कफजेषु । विसूचिकायां अलसे । विस्फोटकामयिनि विस्फोटविकारवति । वक्त्रविकारवत्सु मुखविकारसमेतेषु । सद्यःप्रसूतवनितासु च । सद्यः सप्तरात्रं प्रसूतासु वनितासु स्त्रीषु न चिरकालम् । शोफवत्सु अवयव. शोफसमेतेषु । सद्यःक्षतेषु सद्योवणेषु व्रणयुक्तेषु । नृषु प्राणिषु । एषां सर्वेषामेव च लङ्घनमुद्दिशन्ति उपदिशन्ति वैद्या भिषजः। तच्च यथाबलं यावन्मानं बलम् । तथा च चरकाचार्य:-"प्राणाविरोधिना चैनं लङ्घनेनोपपादयेत् । बलाधिष्ठानमारोग्यं यदर्थोऽयं क्रियाक्रम इति ॥ अजीर्णविकारिणां च प्राणिनां लङ्घनमुद्दिशन्तीति ॥ ८७-८८॥ ___ज्वर से पीडित रोगी को विशेषतः कफज्वर के प्रारम्भ में तथा आमातिसार, रक्तपित्त, कफज छर्दि (कै), कफज शिरोरोग, कफज नेत्ररोग, विसूचिका, विस्फो. टक, मुखविकार, सद्योव्रण, शोफ, एवं अजीर्ण आदि से पीडित रोगियों और सद्यः प्रसूतस्त्रियों को उनके बलानुसार लंघन कराना चाहिये ॥ ८७-८८ ॥
SR No.002391
Book TitleChikitsa Kalika
Original Sutra AuthorN/A
AuthorNarendranath Mtra
PublisherMitra Ayurvedic Pharmacy
Publication Year
Total Pages274
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy