SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ चिकित्साकलिका। धूमो द्वादशवर्षस्य कवलः पञ्चमे मतः । दोषव्याधिबलावस्थां वीक्ष्य चैतत्प्रयोजयेदिति” ॥ तस्य च फलं सामान्येन सुश्रुतेनोक्तम्-"नस्येन रोगाः शाम्यन्ति नराणामूर्ध्वजत्रुजाः । इन्द्रियाणां च वैमल्यं कुर्यादास्यं सुगन्धि च ॥ हनुदन्तशिरोनीवात्रिकबाहूरसां बलम् । वलीपलित खालित्यव्यङ्गानां चाप्यसम्भवः ॥ तैलं कफे सवाते स्यात् केवले पवने वसाम् । दद्यात् सर्पिः सदा पित्ते मजानं च समारुते ॥" इति ॥ ८५॥ ' सहिजन के बीज, सुरसा (तुलसी) बीज, अर्जक (तुलसीभेद) बीज, सोंठ, श्वेतजीरा, पिप्पली, कालीमिर्च, अजमोदा, कालानमक, धनियां। इन्हें समपरिमाण में एकत्र मिश्रित कर जत्रुसंधि से ऊपर स्थित रोगों में नस्य लेना चाहिये ॥ ८५॥ ___इदानी वातादिरोगाणां सामान्येन वमनादिकां क्रियामुक्त्वा ज्वरादीनां प्रत्येकं विशेषचिकित्साविधिमाह इतीयमुक्ता पवनादिरोगिणां क्रिया क्रियान्या तदपि प्रवक्ष्यते । प्रतिज्वरादिप्रविभक्तभेषजै रतश्चिकित्साकलिका भिषग्मता ॥ ८६ ॥ इतिशब्दः परिसमाप्तौ । यद्यपि पूर्वोक्तप्रकारेण पवनादिरोगिणां वातादिरोगिणां इति इयं क्रिया संक्षेपेणोक्ता पूर्वाचार्येण । क्रियते इति क्रिया। तथापि अन्यापि क्रिया प्रचक्ष्यते । कस्मात् ? यत इयं सामान्येनोक्ता न विशेषेण। इयं च वक्ष्यमाणकाविशेषेण ज्वरादिषु प्रविभक्तभेषजैः । प्रकर्षेण विभकैर्भेषजैरौषधैर्वक्ष्यते । अतः अस्मात्कारणात् चिकित्साकलिका भिषग्मता । भिषजां वैद्यानां मता सम्मता । यस्मादस्यां दोषविशेषेण ज्वरादिरोगविशेषेण च चिंकित्सतमुक्तमिति ॥ ८६ ॥ इसप्रकार सामान्य रूप से वातज, पित्तज तथा कफज रोगों की चिकित्सा कही है। आगे क्रमशः ज्वर आदि रोगों की पृथक् २ चिकित्सा कही जायगी । यतः इस में दोषविशेषों की और ज्वर आदि रोगविशेषों की चिकित्सा कही गई है अतएव यह चिकित्साकलिका वैद्यों द्वारा मान्य है ॥ ८६ ॥
SR No.002391
Book TitleChikitsa Kalika
Original Sutra AuthorN/A
AuthorNarendranath Mtra
PublisherMitra Ayurvedic Pharmacy
Publication Year
Total Pages274
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy