________________
चिकित्साकलिका |
७५
ज्येष्ठमाख्यातं मध्यमं तु पलं भवेत् । पलार्द्धमथ दातव्यं कनीयस्तु विरेचनमिति” ॥ स्नेहादूर्ध्वं त्रिरात्रं मांसरसं भुक्त्वा पेयम् । तथा च चक्षुष्येणः - ' एकाहात्परतः स्नेहं भुक्त्वा प्रच्छर्दनं पिबेत् । भुक्त्वा त्रिरात्रं परतः पिबेत् संशोधनं नरः ॥ तच्च विरेचनं पित्तप्रधाने रोगे पित्ते चोत्क्लिष्टे देयम् । तस्य च लक्षणं चक्षुष्येणेनोक्तम् -'प्रमाणेनाढकं त्रिंशद्वेगः श्लेष्मान्त उत्तमः । दशवेगोऽवरः प्रस्थो मध्योऽर्द्धाढकविंशकैः ॥ वमने च विरेके च तथा शोणितमोक्षणे । सार्द्धत्रयोदशपलं प्रस्थमाहुर्मनीषिणः ॥” तस्मिंश्च विरेके कृते यदि सम्यक् विरेको न भवति मन्दाग्नित्वादातुरस्तदा न भोजनीयः । अथ सम्यक् विरेको भवति, विरेचने जीर्णे बुभुक्षिते च तदा तस्मिन्नेवाहनि पेया दातव्या । तथा च सुश्रुतः-“मन्दाग्निमक्षीणमसद्विरिक्तं न पाययेताहनि तत्र पेयाम् । क्षीणं तृडात सुविरेचितं च तन्वीं सुखोष्णां लघु पाययेत्त || सायाह्ने जीर्णभैषज्ये न विरिच्येत यो नरः । मृद्वल्पमात्रपीतश्च पाययेदौषधं मृदु ॥ भुक्त्वा नेच्छेद्दिने तस्मिन् भुक्त्वान्येद्युः पुनः पिबेत् । अदृढस्निग्धकोष्ठस्तु पिबेदूर्ध्वं दशाहतः ॥ वमनेऽतिप्रवृत्ते तु हृद्यं कार्य्यं विरेचनम् । विरेके चातिवृत्ते तु वमनं योजयेद् भिषक् ॥ ८१ ॥
वातरोग में एरण्डतैल, पित्तरोग में बिन्दुघृत तथा कफरोग में शुद्ध गुग्गुलु के साथ त्रिफलाकाथ को विरेचनार्थ पीना चाहिये ॥ ८१ ॥
इदानीं कृतविरेकस्योर्ध्व सप्तरात्रात्, अभ्यर्चितद्विजस्य, स्निग्ध स्विन्नस्य, मध्याह्ने, कृतमूत्रपुरीषस्य, बुभुक्षितस्य, कृतमङ्गलस्वस्तिवाचनस्य सतो निरूहणाधिकार इत्याह
गुडतिन्तडीककुडवस्तु भवेदपि चात्र मूत्रकुडवद्वितयम् । मिशिराठरामठकसिन्धुयुतं
नृनिरूहणं हि विहितं मुनिभिः ॥ ८२ ॥
मुनिभिः पूर्वर्षिभिर्नृनिरूहणं नृणां प्राणिनां निरूहणमास्थापनं विहितं युक्तम् । गुडतिन्तिडीककुडवस्तु भवेत् । गुडः प्रसिद्धः । तिन्तीडीकमलीका | द्वयोरपि कुडवं चत्वारि पलानि । अत्र च मूत्रकुडव -