________________
७४
चिकित्साकलिका। ग्राम्योदकैमर्मासैरानूपैश्च सुसंस्कृतैरिति” । क्वाथस्य प्रमाणेषुत्तममध्यमाधममात्रा यथासंख्येन नव षट् त्रयः प्रस्थाः पातव्याः । तथा च भेल:-"नवप्रस्था तु ज्येष्ठा स्यात् मध्यमा षट् प्रकीर्तिता। निःक्वाथस्य त्रयः प्रस्था मात्रा सा तु कनीयसी । त्रिपलं ज्येष्ठमाख्यातं कनीयस्तु पलं पिबेत् । मध्यमं द्विपलं विद्यादिति मे निश्चिता मतिः ।" तस्य वमनस्य उत्तममध्यमाधमस्य लक्षणमाह-वमने चास्यवेगाः स्युरष्टौ पित्तान्त उत्तमः । षड्वेगान्मध्यमो वेगश्चत्वारस्त्वधमे मताः।' इति चक्षुष्येणात् । “वामितं लङ्घयेत्सम्यक् शुद्धिलिंगानि लक्षयेत् । तानि दृष्ट्वा तु पेयादिक्रमं कुर्य्यान्न लङ्घयेत्” । तथा च "पेयाविलेपीमकृतं कृतं च यूषं रसं द्वित्रिरथैकशश्च । क्रमेण सेवेत नरोऽनकालात् प्रधानमध्यावरशुद्धिशुद्धः" । इति एष पेयादिक्रमः कायचिकित्सकानां मत इति । शल्यतन्त्रकर्तृणां सुश्रुतादीनां यूषादिक्रमोऽभिप्रेतः । तथा च सुश्रुतः-“ततोऽपराह्ने सुविशुद्धदेहमुष्णाभिरद्भिः परिषिक्तगात्रम् । कुलत्थमुद्गाढकिजांगलानां यू रसैर्वाप्युपभोजयेत” । इति ॥ ८० ॥
___मदनफल के क्वाथ में अथवा नीम के क्वाथ में इन्द्रजौ, वच, पिप्पली, मुलहठी, सैन्धानमक; इनके चूर्ण का प्रक्षेप देकर पीने से वमन होता है । यह वमन कफजरोगों को नष्ट करता है ॥ ८० ॥
___ एवं कृतसंसर्जनस्य पुनरपि स्निग्धस्विन्नस्य पक्षादूचं वमनात् विरेचनं प्रहरे सत्रिभागे गते देयमित्यत आह
उरुबूकतैलमथ बिन्दुघृतं त्रिफलाकषायमथ गुग्गुलुना। सुविरेचनं विरचितं हि नृणा
मिति वातपित्तकफरोगवताम् ॥ ८१ ॥ नृणां प्राणिनां सुविरेचनं शोभनं विरेचनं विरचितमिति । उरुबूकतैलं एरण्डतैलं वातरोगे विरेचनम् । विन्दुघृतं पित्तरोगे विरेचनम्। त्रिफलाकषायं गुग्गुलुना सह श्लेष्मरोगे विरेचनम् । तच्च विरेचनं क्रूरमध्यममृदुकोष्ठं ज्ञात्वा ज्येष्ठमध्यमकनीयसी मात्रा देया। तथा च सिद्धसारः—“पित्तेन स्यान्मृदुः कोष्ठः करो वातकफात्मकात् । मध्यमः समदोषत्वान्मात्रा योज्यानुरूपतः" । सा च मात्रा भेलेनोक्ता । "द्विपलं