________________
चिकित्साकलिका |
७३
यवक्षार, सर्जिक्षार, पूतिकरञ्ज की छाल; मिलित ६ पल । यथाविधि घृत पाक करें । यह घृत विशेषतः अग्निप्रदीपक है ॥ ७८ ॥
इदानीं स्निग्धे स्वेदनं अधिक्रियते इति स्नेहनानन्तरं स्वेदमाहपुनर्नवैरण्डयवातसीभिः कार्पासजैरस्थिभिरारनालैः । स्विन्नैरमीभिस्त्विति षड्भिरेव
स्वेदः समीरासिंहरो नराणाम् ।। ७९ ।।
अमीभिरनन्तरोक्तद्रव्यैः आरनाले काञ्जिके स्विन्नैरुत्स्विन्नैः । अयं स्वेदः समीरणो वायुः, तेन अर्तिः पीडा, तां हरतीति समीरार्त्तिहरो भवति । केषां ? नराणाम् | कैः ? पुनर्नवादिभिः । पुनर्नवा वर्षाभूः । एरण्ड उरुवुकः । यवः शूकधान्यम् । अतसी उमा । कार्पास जैरस्थिभिर्बीजैः काञ्जिकसहितैः । षद्धिरेव स्वेदः कार्थ्य इति ॥
1
पुनर्नवा, एरण्डमूल, जौ, अलसी, कपास के बिनौले, इन्हें कांजी में उत्स्विन कर स्वेद देने से वातरोग नष्ट होते हैं ॥ ७९
साम्प्रतं स्निग्धस्विन्नस्य वमनं क्रियते इति वमनमाह
सकलिङ्गवचा मगधामधुकं लवणेन युतं मदनाम्बु पिबेत् । वमनं कफरोगहरं नृणा
मथवा पिचुमन्दकषायकृतम् ॥ ८० ॥
मदनाम्बु मदनकाथम् । कीदृग्गुणविशिष्टं ? सकलिङ्गवचामगधा मधुकम् । कलिङ्ग इन्द्रयवः । वचा हैमवती । मगधा पिप्पली । मधुकं यष्टीमधु | सह कलिङ्गादिभिर्वर्त्तत इति सकलिङ्गवचामगधामधुकम् । लवणेन सैन्धवेन युतं मदनाम्बु पिबेत् । वमनं कफरोगहरं भवति । नृणां प्राणिनाम् । कलिङ्गादीनि चूर्णीकृत्य कल्कीकृत्य वा योजनीयानि मदनक्काथे । अथवेति पक्षान्तरम् । पिचुमन्दकषायेण कृतं कलिंगादिसंयुक्तं वमनं भवति इति । पिचुमन्दो निम्बः । तच वमनमेकाहो विश्राम्य स्नेहान् ग्राम्योदकैः मांसरसैरुत्क्लेश्यापरस्मिन् प्रभाते वमनं कुर्यात् । तथा च भेलः - " एकाहो परतः स्नेहः स्थित्वा प्रच्छर्दनं पिबेत् । भुक्त्वा