SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ चिकित्साकलिका। पूर्वमुक्तं स्नेहो हितः सुरभिवासकषट्पलादिः । अधुना द्वितीयं स्नेहप्रकारमाह बलादिना वानिलजे विकारे पैत्ते महातिक्तकसर्पिषा वा। धान्वतरेणाथ बलासरोगे स्नेहेन मिश्रेण विमिश्रितेषु ॥ ७१ ।। बलादिना तैलेन अनिलजे विकारे वातविकारे स्नेहो हितः । पैत्ते पित्तजे विकारे महातिक्तकसर्पिषा घृतेन स्नेहो हितः। धान्वन्तरेण घृतेन बलासरोगे श्लेष्मरोगे स्नेहो हितः । स्नेहेन मिश्रेण बलातैलद्रव्यैः महातिक्तकद्रव्यश्चै एकीकृतैः स्नेहं पक्त्वा विमिश्रिते विकारे वातपित्तजे स्नेहो हितः । एवं वातश्लेष्मजे पित्तश्लेष्मजे च विकारे स्नेहेन विमिश्रेण स्नेहो हितः॥ ७१॥ वातज विकार में बलादितैल, पित्तजविकार में महातिक्तकघृत तथा कफज विकार में धान्वन्तरघृत हितकर है। द्वन्द्वज दोषों में उन २ दोषों के नाशक स्नेहों के द्रव्यों को एकत्र मिश्रित कर उनसे सिद्ध तैल आदि स्नेहों का प्रयोग करना चाहिये ॥ ७१ ॥ पूर्वमुक्तं स्नेहो हितः सुरभिवासकषट्पलादिरत्र च रास्नातैलं वातजे यदुक्तं तत्साम्प्रतमाह रास्नादिभिः पलचतुष्कमितैलस्य द्रोणे Vतैश्चरणशेषकृते कषाये । एलादिभिः समधुरैरिति दुग्धपिष्टै स्तै विपक्वमनिलापहरं नराणाम् ॥ ७२ ॥ रास्नादिभिरिति रास्नात्रिकण्टकगुहेत्यादिभिः । पलचतुष्कमितैः प्रत्येकं चतुःपलप्रमाणैः । जलस्य पानीयस्य द्रोणे शृतैः क्वथितैः । द्रोणं च पञ्चभिः पलशतैादशोत्तरैर्भवति । ततश्चरणशेषकृते कषाये चरणः पादः स शेषः कृतो यस्मिन् स चरणशेषकृतः तस्मिन् चरणभागावशेषे। एलादिभिः एलागुग्गुलुदारुकुन्दुरुमुरेत्यादिभिः । मधुरैरिति काकोल्यादिभिः । दुग्धपिष्टैः कल्कं कृत्वा तैलं विपचेत् । कल्कप्रमाणं च चतुर्थी
SR No.002391
Book TitleChikitsa Kalika
Original Sutra AuthorN/A
AuthorNarendranath Mtra
PublisherMitra Ayurvedic Pharmacy
Publication Year
Total Pages274
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy