SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ चिकित्साकलिका। ६७ पश्चान्नस्यम् । क्रमश्चेति भिषग्वराणां पञ्चकर्मार्हस्य । कश्चिदेककर्माहः। कश्चिद् द्विकर्मार्हः। कश्चित् त्रिकर्मार्हः । कश्चिञ्चतुःकर्मार्हः । एवं विधिप्रतिषेधौ निरूप्य पञ्चकर्माणि क्रियन्त इति । तथा चोक्तं सुश्रतेन"कर्मणा कश्चिदेकेन कश्चिद् द्वाभ्यां त्रिभिस्तथा । विकारः साध्यते कश्चिञ्चतुर्भिरपि कर्मभिरिति ॥ कर्मशब्दस्य सामान्यवाचित्वात् शस्त्रकर्माष्टविधं तथा वमनादिपञ्चविधं गृह्यत इति ॥ ६९ ॥ शरीर की शुद्धि के लिये प्रथम पाचन तदनन्तर नेहन, स्वेदन, वमन, विरेचन, निरूहण, अनुवासन तथा नस्य कर्म क्रमशः किये जाते हैं ॥ ६९ ॥ प्राक् पाचनस्य सूत्रितत्वात् प्रथमं पाचनमेवाह रास्नापटोलपिचुमन्दपयोभिरादौ शुण्ठ्याटरूषकफलत्रयवारिभिर्वा । पक्कामदोषवपुषस्तदनन्तरं हि स्नेहो हितः सुरभिवासकषट्पलादिः ॥ ७० ॥ पक्का आमा दोषा यस्य वपुषि स पक्कामदोषवपुः तस्य । कैः ? रास्नापटोलपिचुमन्दपयोभिः क्वाथैः यथासंख्येन । एतदुक्तं भवति रास्नाक्वाथेन वातरोगे । पटोलक्वाथेन पित्तरोगे। पिचुमन्दो निम्बस्तस्य काथेन श्लेष्मरोगे पाचनमादौ कार्यम् । द्वितीयं पाचनप्रकारमाहशुण्ठ्याटरूषकफलत्रयवारिभिः क्वाथैर्वा यथासंख्येन । वातरोगे शुण्ठीक्वाथेन । पित्तरोगे आटरूषकक्वाथेन । श्लेष्मरोगे फलत्रयकाथेन पाचनमिति । तदनन्तरं पाचनानतरं स्नेहो हितः स्नेहनं कार्यम् । सुरभिवासकषट्पलादिः । आदिशब्दोऽन्ते पठितत्वात् प्रत्येकमभिसंबध्यते । सुरभिः रास्ना। रास्नादिभिः वातपित्तकफरोगाणाम् । तेन रास्नादिसंस्कृतः स्नेहो वाते, वासकादिस्नेहः पित्ते, षट्पलादिस्नेहः कफ इति ॥ ७॥ ___वातरोग में रास्नाक्वाथ, पित्तरोग में पटोलपत्रक्वाथ, कफरोग में निम्बक्वाथ अथवा वातरोग में शुण्ठी (सोंठ) क्वाथ, पित्तरोग में अडूसाक्वाथ एवं कफरोग में त्रिफलाक्वाथ से आमदोषों का पाचन करने के अनन्तर वातदोषनाशक द्रव्यों से सिद्ध रास्नादि तैल द्वारा वातज व्याधियों में, पित्तदोषनाशक द्रव्यों से सिद्ध वासादि घृत द्वारा पैत्तिक व्याधियों में तथा च कफदोषनाशक द्रव्यों से सिद्ध षट्पल घृत द्वारा कफज व्याधियों में स्नेहन करना चाहिये ॥ ७० ॥
SR No.002391
Book TitleChikitsa Kalika
Original Sutra AuthorN/A
AuthorNarendranath Mtra
PublisherMitra Ayurvedic Pharmacy
Publication Year
Total Pages274
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy