________________
६६
चिकित्साकलिका |
तथा च सुश्रुतः – 'तत्र वर्षाहेमन्तग्रीष्मेषु सञ्चितानां दोषाणां शरद्वसन्तप्रावृट्सु च प्रकुपितानां निर्हरणं कर्त्तव्यमिति ॥ ६८ ॥
यतः प्रावृट्, शरत् तथा वसन्त ऋतु में क्रमशः वातज, पित्तज एवं कफज रोग पैदा होते हैं अतः इन ऋतुओं में वातज आदि रोगों की शान्ति के लिये वस्ति आदि द्वारा शरीर का संशोधन करना चाहिये । प्रावृट् ऋतु में वातजरोगों की शान्ति के लिये वस्तिकर्म, शरद् ऋतु में पित्तरोगों की शान्ति के लिये विरेचन तथा वसन्त ऋतु में कफज रोगों की शान्ति के लिये वमन की व्यवस्था देनी चाहिये ॥ ६८ ॥
इदानीं केन क्रमेण शुद्धिः क्रियते इत्याहप्राक् पाचनं स्नेहविधिस्ततश्व स्वेदस्ततः स्याद् वमनं विरेकः । निरूहणान्वासनवस्तिकर्म
नस्यक्रमचेति भिषग्वराणाम् ।। ६९ ।।
भिषजां वराः भिषग्वराः तेषामिति क्रमः । प्राक् पाचनं प्रथमं पाचनं विरूक्षणं सामानां दोषधातुमलानाम् । अथ कोऽयमामो नाम ? अबिपक्कोऽन्नरस इति ब्रूमस्तथा च तन्त्रान्तरम् — “जाठरानलदौर्बल्यादविपक्कस्तु यो रसः । स आमसंज्ञितो देहे सर्वदोषप्रकोपणः ॥ आमेन तेन संयुक्ता दोषा दूष्याश्च दूषिताः । सामा इत्युपदिश्यन्ते ये च रोगास्तदुद्भवाः ॥ इति ॥ विरूक्षितस्य च स्नेहविधिः सप्तरात्रं विधेयः । यदुक्तं सुश्रुतेन -- विरूक्षितस्य स्नेहनं स्नेहैरिति । स्नेहस्यानन्तरं स्वेदः । ततः स्यात् भवेत् । स्वेदस्विन्नशरीरस्तु वमनादिना पञ्चकर्मणाधिक्रियते । तथा च ग्रन्थान्तरम् - "कर्मणां वमनादीनामन्तरे त्वन्तरे पुनः । स्नेहस्वेदौ प्रयुञ्जीत संशोधनमनन्तरमिति" । कृतवमनविरेकस्य निरूहणाधिकारः । यदुक्तं सुश्रुतेन - "पक्षाद्विरेको वान्तस्य ततश्चापि निरूहणम् । सद्यो निरूढोऽन्वास्यः स्यात् सप्तरात्राद्विरेचितः ॥” पुनरप्युक्तम् - " निरूह शोधितान् मार्गान् सम्यक् स्नेहो - ऽनुगच्छति । तथा तेनैव सुश्रतेन विरेकानन्तरमनुवासनमुक्तम् । “विरेचनात् सप्तरात्रे गते जातबलाय वा । कृतान्नायानुवास्याय सम्यग्देयोऽनुवासन इति" || निरूहणान्वासनबस्तिकर्म । निरूहणमास्थापनम् । अनुवासनं स्नेहनम् । बस्तिरनुवासनतः । ततः