________________
चिकित्साकलिका। ततो वातपित्तकफरोगाणां योगाः कल्प्यन्ते तैलादयः । वातजे विकारे वातघ्नगणेन तैलघृते पक्त्वा बाह्याभ्यन्तरोपयोगः क्रियते । कल्कचूर्णपानान्यभ्यन्तरोपयोगाः। प्रलेपसेकावगाहा बाह्योपयोगाः।आस्थापनानुवासननस्यैरभ्यन्तरप्रयोगः । अजनबस्त्यादिविधानं बाह्यतः । एवं वातपित्तकफानामेकद्वित्रिविभागेन रानादिभिर्गणैः प्रयोगाः कल्पनीया इति बुद्धिमता वैद्येनेति । तथा च सुश्रते-'एभिर्लेपांस्तथातैलं सीष्यपि च पानकान् । प्रविभज्य यथान्यायं कुर्वांत मतिमान् भिषक् ॥ समीक्ष्य दोषभेदांश्च गणान् भिन्नान् प्रयोजयेत् । पृथव्यस्तं समस्तं वा गणं वा व्यस्तसंहतम्" ॥ इति ॥ ६७॥
चिकित्सक को चाहिये कि प्रथम लक्षणों द्वारा रोग के वातज, पित्तज अथवा कफज होने का निश्चय करके इन उपर्युक्त ओषधियों के अठारह गणों द्वारा बुद्धिपूर्वक तैल, घृत, चूर्ण, कल्क, प्रलेप, सेक, अवगाहन पानक, आस्थापन, अनुवासन, नस्य, अञ्जन तथा वस्ति आदि के बाह्य एवं आभ्यन्तर योगों की कल्पना करे ॥ ६७॥
प्रागुक्तं ते दोषजा भेषजशुद्धिसाध्याः । सा च शुद्धिः कस्मिन् काले क्रियते इत्याह
प्रावृद्धनात्ययवसन्तदिनेषु यस्मात् प्रादुर्भवन्ति पवनादिरुजस्ततश्च ।
वातादिरोगविगमाय शरीरशुद्धिः .. स्यादम्बुदागमशरन्मधुवासरेषु ॥ ६८ ॥
यस्मात्पवनादिरुजो वातादिविकाराः प्रादुर्भवन्ति । प्रावृडादिषु कालेषु । प्रावृट्काले वातविकाराः। घनात्ययकाले पित्तविकाराः । घना मेघाः तेषां अत्ययो विनाशो यस्मिन् काले स घनात्ययः शरत्कालः । वसन्तदिनेषु वसन्तदिवसेषु श्लेष्मविकाराः प्रादुर्भवन्ति । ततस्तस्मात् कारणात् शरीरसंशुद्धिः शरीरसंशोधनं वमनादिभिः पञ्चभिः कर्मभिः स्यात् भवेत् । किमर्थम् ? वातादिरोगविनाशायोपशमाय । केषु कालेषु सा शुद्धिर्भवेत् ? अम्बुदागमशरन्मधुवासरेषु । अम्बुदाः मेघास्तेषामागमो यस्मिन् काले स अम्बुदागमः प्रावृट्कालः । तत्र वस्तिदानं वातरोगोपशमार्थ क्रियते । शरत्काले विरेचनं पित्तरोगोपशमार्थम् । मधुवासरेषु वसन्तदिनेषु वमनं श्लेष्मरोगोपशमनार्थ क्रियते इति ।