________________
चिकित्साकलिका जनकम् । विषघ्नं स्थावरजङ्गमविषं हन्ति । एतदेव त्रिसुगन्धि सनागपुष्पं, नागकेसरेण सह चतुर्जातकं ज्ञेयमित्येतौ त्रयोदशचतुर्दशगणौ ॥
त्रिसुगन्धि-दारचीनी, तेजपत्र, छोटी इलायची। यह गण वात तथा कफ को हरने वाला, वर्णजनक तथा विषनाशक है। यदि उपर्युक्त तीन द्रव्यों के साथ नागकेसर मिला दें तो इसी का नाम चतुर्जात है ।। ६० ॥ इदानीं वरुणादिकं गणमाह
वरुणकुरण्टकशिग्रवृहतीद्वयदर्भवरीककुभकरञ्जबिल्वारणीशिखिभिः । द्विपवलयाग्निमन्थयुतया च समोरटया . भवति गणः सकर्कटकमेष विषाणिकया ॥ ६१ ॥ गुल्मेषु विद्रधिषु वातबलासजेषु कोष्ठान्तरस्थितिषु शूलरुगातुरेषु । प्रायः कफानिलविकारनिपीडिताना
मुक्तो नृणां वरुणकादिरयं भिषग्भिः ॥ ६२ ॥ अयं गणो वरुणकादिरुक्तो भिषग्भिः । वरुणस्तिक्तशाकद्रमः । कुरण्टकः पीतपुष्पः सहचरः । शिनद्वयं शिग्रुसज्ञितम् । शिग्रुः हरितशिग्रुः । मधुशिग्रुः शोभाजनकः । बृहतीद्वयं बृहती स्थूलफला, चणकबृहती श्लक्ष्णफला । दर्भः भीरुः । वरी शतावरी । ककुभ आर्तगलः सुगन्धमूलः । करञ्जः वृक्षकरञ्जः । बिल्वः शाण्डिल्यः । चिरबिल्वः पूर्तिकरञ्जः । अरणी तर्कारी । शिखी चित्रकोऽग्निनामभिः । द्विपबला नागबला। अग्निमन्थस्तेजोवृक्षः । मोरटः अंकोलपुष्पम् । कर्कटकः कर्कटशृङ्गी। मेषविषाणिका अजशृङ्गी उत्तरवारुणीतिलोके विख्याता। केषामुक्तः ? नृणां प्राणिनां कफानिलविकारनिपीडितानाम्। कफश्च अनिलश्च कफानिलौ ताभ्यां विकाराः कफानिलविकाराः तैर्निपीडिताः कफानिलविकारनिपीडिताः तेषाम् । प्रायो बाहुल्येन । केषु चोक्तम् ? गुल्मेषु विद्रधिषु च । कीडग्गुणविशिष्टेषु ? वातबलासजेषु । वातश्च बलासश्च वातबलासौ ताभ्यां जाता तेषु । बलासः श्लेष्मा । कोष्ठान्तरस्थितिषु । कोष्ठं जठरं तस्मिन्नन्तराणि कुक्ष्यादीनि तेषु । कुक्षिस्तन