________________
६०
चिकित्साकलिका |
इदानीं पञ्चवल्कलमाहवटीवटोदुम्बरखेतसानामश्वत्थवृक्षेण समन्वितानाम् । त्वक्पञ्चकं पश्च महीरुहाणामिति व्रणनं श्वयथुनमेतत् ॥ ५७ ॥
एतत् त्वक्पञ्चकं व्रणघ्नं च । त्वचां पञ्चकं त्वक्पञ्चकम् । व्रणान् हन्तीति व्रणनम् । श्वयथुं हन्तीति श्वयथुघ्नम् । केषां ? पञ्च महीरुहाणां वृक्षाणाम् । वटीवटोदुम्बरवेतसानाम् । मही पृथ्वी तस्यां रोहन्तीति महीरुहाः । पञ्च च ते महीरुहाश्च पञ्चमहीरुहाः तेषां वटीवटोदुम्बरवेतसानाम् । वटी लक्षः । वटो न्यग्रोधः । उदुम्बरः स्कन्धफलः वेतसो वञ्जुलः । अश्वत्थः पिप्पलः । तेन समन्विताः सयुंक्ताः तेषां पञ्चवल्कलानां दशमो गणः ॥ ५७ ॥
पञ्चवल्कल – लक्ष ( पिलखन ), वट, गूलर, वेत, पीपल; इन पांचों वृक्षों की छाल को एकत्र पञ्चवल्कल कहते हैं । यह व्रण एवं शोथ नाशक है ॥ ५७ ॥
साम्प्रतमेलादिकं गंणमाहएलाग्गुगुलुदारुकुंदुरुमुरास्थौणेयकौन्तीनतेचण्डाचोरकचो चचन्दननख श्रीवेष्टक ध्यामकैः । स्पृक्काक्कुङ्कुमरुक्तुरुष्कफलिनीमांसीलवङ्गागुरुत्वक्पत्रोरगकेसरैरितिविषश्लेष्मानिलघ्नो गणः ॥ ५८ ॥
अयं गणो विषश्लेष्मानिलघ्नः । विषं च श्लेष्मा च अनिलश्च विषश्लेष्मानिलाः, तान् हन्तीति विषश्लेष्मानिलघ्नः । एभिर्द्रव्यैरेला - दिभिः । एला पृथ्वीका । गुग्गुलुः पलंकषा । दारु देवदारु । कुंदुरुः सल्लकी खपुरः । मुरा गन्धवती । स्थौणेयकं क्षौमम् । कौन्ती रेणुका । नतं तगरम् । चण्डा तस्करी अजमोदानुकारी ॥ चोरकस्तस्करो ग्रन्थिपर्णानुकारी । चोचं माणवकः । चन्दनं रक्तचन्दनम् । नखं व्याघ्रनखम् । श्रीवेष्टकः श्रीवासः । ध्यामकं कतृणम् । स्पृक्का- कुटिलपुष्पा । कुंकुमं बाह्लीकम् । रुक् कुष्ठम् । तुरुष्कं सिह्नकम् । फलिनी प्रियङ्गः । मांसी